कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 102, कुल 268 में से
संदर्भ में पढ़ें( ८३ ) रागद्वेषविनिर्मुत्तया तपस्विन्या पार्वत्या तं प्रत्यादरः प्रदर्शित इति शङ्कायां कविः कथयति यत् समदर्शिनो जना अपि पुरुषविशेषेष्व- धिकादरवन्तो भवन्ति ॥ ३१ ॥ विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ ३२ ॥ विधीति । स ब्रह्मचारी विधिप्रयुक्तां विधिना प्रयुक्तामनुष्ठितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय नाम । नामेत्यपरमार्थे । अथ उमां ऋजुना एव विलासरहितेनैव चक्षुषा पश्यन् अनुज्झितक्रमः अन्यकोचितपरिपाटीकः सन् वक्तुं प्रचक्रमे प्रारभे ॥ ३२ ॥ PROSE ORDER—सः विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं परिश्रमं विनीय च नाम उमां ऋजुना एव चक्षुषा पश्यन् अनुज्झि- तक्रमः (सन्) वक्तुं प्रचक्रमे ॥ ३२ ॥ NOTES—विधिप्रयुक्तां--विधिना प्रयुक्ता विधिप्रयुक्ता, ताम् यथाविधि कृतां done according to proper rites सत्क्रियां —सत् क्रिया सत्क्रिया, तां worship. Here सत् is used as a preposition according to the rule ‘आदरानादरयोः सदसती’ पा० १ ४ ६३ । and the compound is made by ‘कुगति प्रादयः, ’ पा० २ २.१८ । परिगृह्य—(परि+√ग्रह्+ल्यप्) स्वीकृत्य having accepted. क्षणं—for a little while. विनीय —(वि+√नी+ल्यप्) अपनीय having removed. नाम— अपरमार्थे only in appearance It is an indeclinable used in various senses Here it has been used in the