भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 113, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 113

( ६४ ) न स्खलतीति अव्यभिचारि सत्यम् । ‘ यत्राकृतिस्तत्र गुणाः ’। ‘ न सुरूपा पापसमाचारा. भवन्ति ’ इत्यादयो लोकवादाः न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते—तथा हि । हे उदार- दर्शने आयताक्षि । सुरूपे इत्यर्थः । अथवा उन्नतज्ञाने । विवेक- वतीत्यर्थः । ते तव शील सद्वृत्तम् ‘ शीलं स्वभावे सद्वृत्ते ’ इत्यमरः । तपस्विनामपि उपदिश्यते अनेनेत्युपदेशः प्रवर्त्तकं प्रमाणं तत्तां उपदेशतां गतं प्राप्तम् । मुनयोऽपि त्वां वीक्ष्य स्ववृत्ते प्रवर्त्तन्ते इति भावः ॥ ३६ ॥ PROSE ORDER :—( हे ) पार्वति 'रूपं पापवृत्तये न ( भवति इति ) यद् उच्यते, तद् वचः अव्यभिचारि ; तथा हि ( हे ) उदार- दर्शने ! ते शिलं तपस्विनां अपि उपदेशतां गतम् ॥ ३६ ॥ NOTES :—रूपं—सौन्दर्य beauty पापवृत्तये—पापस्य वृत्तये ( आचरणाय ) पापवृत्तये for a sinful course of life The expression रूपं पापवृत्तये न means that beauty does not lead to a sinful course of life For similar idea Cf ‘ यत्राकृतिस्तत्र गुणाः वसन्ति । ’ ‘ रूपं शीलानुसारि । ’ and ‘ न ह्याकृतिः सुसदृशं विजहाति शीलम् ’ अव्यभिचारि— न व्यभिचरति इति अव्यभिचारि ( वि + अभि + √ चर् + णिनिः ) सत्यम् not false, unfalling उदारदर्शने—उदारं ( उत्कृष्टं ) दर्शनं ( रूपं ) यस्याः सा, तस्याः सम्बुद्धौ उदारदर्शने ( अति ) सुन्दरि ) O one of noble form Mallinath takes दर्शन in the sense of ‘ the eye ’, hence he has translated it by ‘ आयताक्षि ’ । शीलं—सदाचारः ( good ) conduct. तपस्विनां—( तपस् + विनिः ) for the ascetics. The suffix विनिः is added by ‘ अस्मायामेधास्रजो विनिः ’ पा० ५.२.१२१ । Mark the force of अपि । Parvati's conduct was not