कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 182, कुल 268 में से
संदर्भ में पढ़ेंthis our friend, emaciated by penance (and) looked at by her friends with tears, as Indra favours the ploughed earth distressed by his holding off the rain 61 PURPORT IN SANSKRIT :—सत्यमेवाभिलषितोऽपि शिवो दुष्प्रापः, यतः स इयता समयेनापि पार्वत्या न लब्धः। तस्येमां चित्तवृत्तिं दृष्ट्वा मया ज्ञातु न शक्यते यत् स कियत्कालानन्तरं वर्षाभावादत्यन्तं पीडितां महीं इन्द्र इवेमां तपश्चरणात्कृशीभूता- मस्माकं सखीमनुग्रहीष्यति, यां दृष्ट्वा वय तत्सख्यो निरन्तरमश्रूणि मुञ्चामः ॥ ६१ ॥ अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अपीदमेवं परिहास इत्युमा- मपृच्छदव्यञ्जितहर्षलक्षणः ॥ ६२ ॥ अगूढेति । इङ्गितज्ञया पार्वतीहृदयाभिज्ञया ‘ इङ्गितं हृद्गतो भावः ’ इति सज्जनः । तया गौरीसख्या इति एव अगूढसद्भावं प्रकाशितसद्भिप्रायं यथा तथा निवेदितः ज्ञापित । नैष्ठिकसुन्दरः निष्ठा मरणमवधिर्यस्य स नैष्ठिकः यावज्जीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ तथोक्तः । द्वयोरन्यतरस्य विशेषणत्व- विवक्षायां विशेषणसमासः । किन्तु नैष्ठिकत्वविशेषणेन कामित्व- विरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोध । अव्यञ्जितहर्षलक्षणं अव्यञ्जितं हर्षलक्षणं मुखरा- गादिहर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरी । अयीति कोमला- मन्त्रणे । इदं त्वत्सखीभाषितं एवम् । सत्यं किमित्यर्थ । परिहासः