भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 185, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 185

( १६८ ) अथाग्रहस्ते मुकुलीकृताङ्‌गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ६३ ॥ अथेति । अथ अनन्तर अद्रे तनया पार्वती मुकुलीकृताङ्गुलौ सपुटीकृताङ्गुलौ । अग्रश्चासौ हस्तश्चेति समानाधिकरण- समास । 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदात्' इति वामनः। तस्मिन् अग्रहस्ते स्फटिकाक्षमालिकां स्फटिकानां अक्षमालिकां समर्पयन्ती आमुञ्चती कथञ्चित् महता कष्टेन चिरव्यवस्था- पितवाक् चिरेण स्वीकृतवाक् । एनेन लज्जोपरोधी व्यज्यते । मिताक्षर परिमितवर्ण यथा तथा अभाषत बभाषे ॥ ६३ ॥ PROSE ORDER —अथ अद्रे तनया मुकुलीकृताङ्गुलौ अग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्ती चिरव्यवस्थापितवाक् कथञ्चिद् मिताक्षरं अभाषत ॥ ६३ ॥ NOTES :—अद्रेः—पर्वतस्य of the mountain, i e, of the Himālaya 'अद्रिगोत्राद्रिगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । तनया—पुत्री the daughter, i e, Pārvatī मुकुली- कृताङ्गुलौ । मुकुली कृता —(मुकुल+च्चिः+कृता) अमुकुला मुकुलाः कृताः इति मुकुलीकृता. (संपुटीकृता) joined or brought together like a bud ; formed in the shape of a bud. मुकुल—a bud च्वि suffix is added to nouns or indeclinables to express that a person or thing, not being like what is denoted by the base to which it is added, becomes or is made like it Here the