भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 193, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 193

( १७६ ) (मैं) तो उसको अशुभ वस्तुओं से प्रेम करने वाला जान कर तुम्हारा अनुकरण करने (अर्थात् तुम्हारी तरह सोचने) का साहस नहीं कर सकता ॥ ६५ ॥ ENGLISH TRANSLATION :--Then the ascetic said- Maheshwara is well-known, and yet thou has a longing for him ; knowing him to possess fondness for the use of inauspicious things, I dare not see eye to eye with you. 65. PURPORT IN SANSKRIT :—पार्वत्याः वचनमाकर्ण्य स ब्रह्म- चारी कथयति—'अहं शिवं सम्यग्जानामि, अन्येऽपि च तं जानन्ति । तस्य चिताभस्मकपालाद्यशुभवस्तुषु प्रीतिर्विद्यते । तथापि त्वं तत्प्राप्त्यर्थं तपोमग्ना तिष्ठसीत्याश्चर्यम् । अहं शिवस्य याथार्थ्यं विचार्य तव कार्यमनुमन्तुं नोद्यतोऽस्मि ॥ ६५ ॥ अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥ अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिः अवस्तुनिर्बन्धपरे पार्वति । आमुक्त- विवाहकौतुकः आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य सः ते अयं करः । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोः महादेवस्य करेण करणभूतेन तत्प्रथमावलम्बनं तदेव प्रथमं तत्प्रथमम् । अपरि- चितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 193, कुल 268 में से · BharatKosha