कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 29, कुल 268 में से
संदर्भ में पढ़ें( १० ) निश्चया तदा सा महद्दुःखमवाप, पार्वतीं च स्वोरस्यालिङ्ग्य तपोविषयकं निश्चयं त्यक्तुमुपदिदेश ॥ ३ ॥ मनीषिताः सन्ति गृहेषु देवताः तपः क्व वत्से क्व च तावकं वपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ ४ ॥ सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह । मनीषिता इति । हे वत्से । मनस ईषिता इष्टाः मनीषिताः । शकन्ध्वादित्वात् साधुः । देवताः शर्वादयः गृहेषु सन्ति । त्व तान्नाराधयेतिशेषः । तपः क्व । तवेदं तावकम् । ' युष्मदस्मदोरन्यतरस्यां खञ् ' इत्यण्प्रत्यय । ' तवकममकावेकवचने ' इति तवकादेशः । वपुः च क्व । तथा हि पेलवं मृदुत्वं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थिति सहेत । पतत्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योप- भोगयोग्यं ते वपुर्न दारुणतपः क्षममित्यर्थः । अत्र दृष्टान्ता- लङ्कारः ॥ ४ ॥ Prose Order :—वत्से, मनीषिताः देवताः गृहेषु सन्ति, तपः क्व, तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत, पतत्रिणः पुनः न ॥ ४ ॥ Notes :—मनीषिताः—मनसः ईषिताः मनीषिताः desired; wished , such as the mind would long for. ईषिताः is Past Part. from √ ईष् गतिहिंसादर्शनेषु ' to see ' Here the Compound is of मनस् and ईषित, in which the final vowel with the following consonant ( अस् ) of मनस् merges into the following word according to ' शकन्ध्वा-