कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 40, कुल 268 में से
संदर्भ में पढ़ेंbounding in peacocks, which afterwards came to be known by her name among the people 7. Purport in Sanskrit :—पार्वत्याः पिता स्वदुहितुर्मन- स्तद्योग्येऽर्थे लग्नं ज्ञात्वा संतुष्ट आसीत्, अतस्तेन सा वनं गन्तुमनुज्ञाता । साऽपि पितुरनुमतिं संप्राप्य मयूराद्यहिंस्रप्राणि- समन्वितं शान्तमेकं हिमवतः शृङ्गं तपः कर्त्तुं प्रययौ, यच्च शेखरं तपोऽवसाने तस्या नाम्नैव 'गौरीशिखरं' इति प्रसिद्धं जातम् ॥ ७ ॥ विमुच्य सा हारमहार्यनिश्चया विलोलयष्टि प्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥ विमुच्येति । अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलो- लयष्टिप्रविलुप्तचन्दनम् विलोलाभिः चलाभिः यष्टिभि प्रतिसरैः प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन त तथोक्त हारं मुक्तावलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गल पयोधरोत्सेधविशीर्ण- संहति पयोधरयोः स्तनयोः उत्सेधेन उच्छ्रायेण विशीर्णा विघटिता संहति अवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः । Prose Order —अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्त- चन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्ध ॥ ८ ॥ Notes:—अहार्यनिश्चया—न हार्यः ( अत्याज्यः ) निश्चयो यस्याः सा whose determination was unalterable, i e, of firm resolution हार्य—( √हृ+ण्यत् ) which can be