कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 60, कुल 268 में से
संदर्भ में पढ़ें( ४१ ) ENGLISH TRANSLATION —And the fawns, by being given handfuls of forest-grains, trusted her so much that, out of curiosity, she used to measure (her own) eyes with theirs in the presence of her friends 15 PURPORT IN SANSKRIT —पार्वती नीवारादिभिर्वनधान्यैः हरिणान् पोषति स्म अन्यप्रकारेण च तेषु स्निह्यति स्म । तस्याः वात्सल्यं पुत्रवत्पालनञ्चानुभूय हरिणास्तस्यामतिशयमनुरक्ता जाता- स्तस्याः लेशमात्रमपि न बिभ्यति स्म । सापि तेषां निर्भीकत्व- मालोक्य कुतूहलवशात् स्वसखीनां समक्षमेव हरिणानां नेत्रैः स्वनेत्रे माति स्म । एवं सा तैस्सह मनोविनोदं कुर्वन्ती तान्बह्व- मन्यत ॥ १५ ॥ कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागम- न्न धर्मवृद्धेषु वयः समीक्ष्यते ॥ १६ ॥ कृतेति । कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः। त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्त- रासङ्गवतीम् । अधीतमस्या अस्तीति अधीतिनीं स्तुतिपाठादि कुर्वन्तीम् 'इष्टादिभ्यश्च' इतीनि प्रत्ययः । तां देवीं दिदृक्षवः द्रष्टु- मिच्छवः ऋषयः मुनयः अभ्युपागमन् समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह—धर्मवृद्धेषु वयो ज्यैष्ठ्यं न प्रयोजकमित्यर्थः। तथा च मनुः—'न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ ' इति ॥ १६ ॥ PROSE ORDER :—कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्ग- वतीं अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन्, धर्मवृद्धेषु वयः न समीक्ष्यते ॥ १६ ॥