कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 72, कुल 268 में से
संदर्भ में पढ़ें( ५३ ) smile and of slender waist, sitting in the midst of four blazing fires, having overpowered (i. e., being used to bear) the lustre that dazzled the eyes, gazed at the sun with her sight not directed to anything else. 20 PURPORT IN SANSKRIT —कठिनतरतपोवर्णनप्रसङ्गेन पूर्वं पञ्चाग्निसारकं वर्णयति—पार्वती शास्त्राज्ञानुसृत्य पञ्चाग्निनामकं तपः प्रारब्धवती । तत्करणार्थं कृशकटिमती सा ग्रीष्मे दीप्तिमत्तां चतुर्णामग्नीनां मध्ये स्थिता लोचनयोः कष्टकारकं सूर्यस्य तेजः पराभूय अनिमेषनेत्राभ्यां सूर्य प्रति ददर्श ॥ २० ॥ तथाभितप्तं सवितुर्गभस्तिभि- र्मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥२१॥ तथेति । सवितुः सूर्यस्य गभस्तिभिः किरणैः तथा पूर्वोक्त- प्रकारेण अभितप्तं संतप्त तस्या इद तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्तु अस्य मुखस्य दीर्घयोः अपाङ्गयोः केवलं नेत्रान्तयोरेव शनैः शनैः मन्दं मन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्या- दित्यर्थः ॥ २१ ॥ PROSE ORDER :—सवितुः गभस्तिभिः तथा अभितप्तं तदीयं मुखं कमलश्रियं दधौ, श्यामिकया केवलं अस्य दीर्घयोः अपाङ्गयोः शनैः शनैः पदं कृतम् ॥ २१ ॥ NOTES :—सवितुः—of the Sun. Genitive Sing of सवितृ (√षू+तृच्) ; सुवति इति सविता, stimulator ;