कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 77, कुल 268 में से
संदर्भ में पढ़ें( ५८ ) कमपि यत्न न कुरुते स्म, तस्याः भोजनञ्च वृक्षाणामाहारवदति- साधारणमभूत् । यथा हि वृक्षा केवलं वर्षाजलं चन्द्रकिरणांश्चाप- भुज्य जीवनं धारयन्ति एवमेव सापि याचनां विनैव प्राप्तेन जलेनामृतमयैश्च चन्द्रमसो रश्मिभिश्च व्रतान्तभोजनं कृतवती । एवं तया वृक्षवृत्तितपः प्रारब्धमिति कविना प्रदर्शितम् ॥ २२ ॥ निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा । तपात्यये वारिभिरुक्षिता नवै- र्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ २३ ॥ निका मेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण । आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना । निकाम- तप्ता निकामं अत्यन्तं तप्ता सा अम्बिका तपात्यये ग्रीष्मान्ते । प्रावृषीत्यर्थः । नवैः वारिभिः उक्षिता सिक्ता सती भुवा पञ्चाग्नि- तप्तया सह ऊर्ध्वगं ऊर्ध्वप्रसृतं ऊष्माणं बाष्पं अमुञ्चत् । 'ग्रीष्मोष्म- वाष्पा ऊष्माणः ' इति यादवः ॥ २३ ॥ PROSE ORDER — नभश्चरेण इन्धनसंभृतेन विविधेन वह्निना निकामतप्ता सा तपात्यये नवैः वारिभिः उक्षिता ( सती ) भुवा सह ऊर्ध्वगं ऊष्माणं अमुञ्चत् ॥ २३ ॥ NOTES •—नभश्चरेण—नभसि ( आकाशे ) चरति इति नभश्चरः, तेन which wanders or moves in the sky i e., the sun. इन्धनसंभृतेन । संभृत—(सम्+√भृञ्+क्त ) प्रदीप्त kindled or lighted. Lit. fed or maintained इन्धनेन संभृतः, तेन kindled by fuel, i e ordinary fire. विविधेन