कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 91, कुल 268 में से
संदर्भ में पढ़ें( ७२ ) स्वयमिति । स्वयंविशीर्णद्रुमपर्णवृत्तित्ता स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । ‘काष्ठोत्कर्षे स्थितौ दिशि’ इत्यमरः । तया देव्या पुनः तत् पर्णवर्तन अपि अपाकीर्णम् अपा- कृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियंवदां प्रियं वदतीति प्रियंवदा ताम् । ‘प्रियवशे वदः खच्’ इति खच् प्रत्ययः । ‘अरुर्द्विपदजन्तस्य मुम्’ इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणा- समयेऽविद्यमानं पर्णमत्तणं यस्याः सा अपर्णा इति वदन्ति च। नामान्तरसमुच्चयश्चकारः । स्वयं प्रियंवदाः परेषामपि प्रिय- वादभाजनानि भवन्तीति भावः । अत्र अपर्णाम् इत्यपपाठ इतिशब्दा- भिहिते द्वितीयानुपपत्तेः । यथाह वामनः—‘निपातेनाप्यभिहिते कर्मणि न कर्म विभक्तिः परिगणनस्य प्रायिकत्वात्’ इति ॥ २८ ॥ Prose Order:—हि स्वयंविशीर्णद्रुमपर्णवृत्तित्ता तपसः परा काष्ठा, तया पुनः तदपि अपाकीर्णम्, अतः पुराविदः प्रियंवदां तां अपर्णा इति च वदन्ति ॥ २८ ॥ Notes:—स्वयंविशीर्णद्रुमपर्णवृत्तित्ता । विशीर्ण—(वि + √शॄ +क्तः) निपतितानि broken ; fallen. त of क्त is changed to न and then to णा and ऋ of √शॄ is changed to ईर् । Similarly are formed जीर्णा, तीर्णा etc. वृत्तित्ता—वृत्तेः भावः वृत्तित्ता (वृत्ति + ता) means of subsistence स्वयं विशीर्णानि द्रुमाणां पर्णान्येव (पन्नाशयेव) वृत्तिः यस्मिन्, तस्य भावः स्वयं- विशीर्णद्रुमपर्णवृत्तित्ता subsistence on leaves of trees fallen of their own accord. To avoid injury to trees, an ascetic would not pluck their leaves. परा—उत्तमा, परमा the highest, extreme. काष्ठा—सीमा limit ‘काष्ठा उत्कर्षे स्थितौ दिशि’ इत्यमरः । The expression means ‘the