भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 93, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 93

( ७४ ) English Translation .—The extreme limit of austerities lies in subsisting on leaves of trees fallen of their own accord, but that also was abandoned by her ; therefore, those conversant with history also call her, the sweet-talker, Aparna 28. Purport in Sanskrit :—तपस्विनः क्रमशः दुग्धफलादी- नामाहारं त्यक्त्वा स्वयं पतितानि वृक्षाणां पत्राण्येव भुक्त्वा जीवनं यापयन्ति—एषैव तपस्याया अन्तिमावस्था वर्त्तते । परं मधुर- भाषिण्या पार्वत्या दलानां भक्षणमपि त्यक्तमासीदत ऐतिहासस्कि- कास्तां ‘अपर्णा’ इति संज्ञया व्यपदिशन्ति ॥ २८ ॥ मृणालिकापेलवमेवमादिभि- र्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ २९ ॥ मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्व स्वकीयं अङ्गं शरीरं एवमादिभिः एवमुक्तप्रकारतोयाग्निमध्यवास- व्रतमादिर्येषां तैः व्रतैः । अहश्च निशा च अहर्निशम् । समाहारे द्वन्द्वैकवद्भावः । अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती कठिनैः । क्लेशसहैिरित्यर्थः । शरीरैरुपार्जितं संपादितं तपस्विनां ऋषीणां तपः दूरं अत्यन्तं अधश्चकार । अतिशिश्ये इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्प- र्यार्थः ॥ २९ ॥ Prose Order .—एवमादिभिर्व्रतैः मृणालिकापेलवं स्वं अङ्गं अहर्निशं ग्लपयन्ती सा तपस्विनां कठिनैः शरीरैः उपार्जितं तपः दूरं अधः चकार ॥ २६ ॥