लीलावती (भास्कराचार्य द्वितीय - प्राचीन भारतीय गणित सटीक)
Lilavati of Bhaskaracharya with Hindi Commentary
भास्कराचार्य द्वितीय (११५० ई.) / पं. रामस्वरूप शर्मा द्वारा
पृष्ठ 8, कुल 268 में से
संदर्भ में पढ़ेंधन्यवादपत्रम् । संतु भूयांसो धन्यवादाः पंडितवर्येभ्यः श्रीमुरादाबादनगरनि- वासिभ्यः गौडवंशावतंसेभ्यः काशिकराजकीयपाठशालायाम- धीतन्यायादिशास्त्रेभ्यः श्रीरामस्वरूपशास्त्रिभ्यः । यदेभिः शा- स्त्रिभिर्महता परिश्रमेण श्रीभास्कराचार्यविरचितसिद्धांतशिरोम- णिग्रंथैकदेशभूतस्य "लीलावती" नामकव्यक्तगणिताध्यायस्य सकलविद्यार्थिजनोपकृतये सुस्पष्टतयार्थावबोधाय विशदा हिंदी भाषाटीका व्यरचि । यस्यां च भाषाटीकायां नियमोदाहरणा- दीनामनायासतो बोधो जायते । स एष टीकाविरचनारूप उक्त- पंडितानां नव्यतया गणितशास्त्रविद्याबुभुत्सूनामुपरि भूयानेवा- नुग्रहः । एभिः पंडितैरेतल्लीलावतीपुस्तकमस्मत्प्रेरणया भाषा- टीकया समलंकृत्यास्माकं समीपे परमादरणे प्रहितम् । तदेत- दस्माभिर्महता समुत्साहेन स्वकीये "श्रीवेङ्कटेश्वर" मुद्रणालये मुद्रयित्वा प्रकाशमनीयत । ये चैतत्पुस्तकं संगृह्य पठिष्यंति संतु तेभ्यो विद्यार्थिभ्यो धन्यवादाः । यत एतादृक्सविस्तरभा- षाविभूषितमेतत्पुस्तकं क्वाप्यद्यावधि नामुद्र्यत न प्राकाश्यत चात इदं पुस्तकमवश्यं संगृह्य कृतार्थयंतु पण्डितवर्यपरिश्रमा- नित्याशास्महे । भवदीयकृपाकांक्षी- खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम्-मुद्रणालयाध्यक्ष-मुंबई.