मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 116, कुल 377 में से
संदर्भ में पढ़ेंइयमिदानीमहम् नित्यं न्यस्तषडङ्गचक्रनिहितं हृत्पद्ममध्योदितं पश्यन्ती शिवरूपिणं लयवशादात्मानमभ्यागता । नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणा- दप्राप्तोत्पतनश्रमा विघटयन्त्यग्रेनभोऽम्भोमुचः ॥ २ ॥ उद्वृत्तस्खलितकपालकण्ठमाला- संघट्टक्वणितकरालकिंकिणीकः । पर्याप्तं मयि रमणीयडामरत्वं संधत्ते गगनतलप्रयाणवेगः ॥ ३ ॥ सप्त पद्मानि चक्रस्थानि प्रचक्षते ॥' इति । नाडीचक्रात्मककमलानां नाड्य एव दलानि । अनेन चाङ्गुष्ठपरिमाणो वा जीव इति तन्मतम् । तद्विदां तादृगात्म- स्वरूपदर्शिनां योगिनां हृदि विनिहितं रूपं यस्य सः । तथाविधः सन्सिद्धिदो भुक्तिमुक्तिप्रदः । अविचलितमनोभिर्विषयान्तरपरित्यागेन स्वैकतानमनस्कैः सा- धकैः स्वोपासकैर्योगिभिर्मृग्यमाणोऽन्विष्यमाण इति । अत्र नाडीचक्रादिपदानां केवलयोगशास्त्रप्रसिद्धत्वादप्रतीतत्वमपि स्वात्मविमर्शने न दुष्टत्वं किंतु गुणत्वमेवे- त्याहुः ॥ १ ॥ इयमित्यादि । नित्यमिति । नित्यं प्रतिदिनं जपोपक्रमसमये- ऽनुष्ठेयमन्त्राङ्गत्वेन यन्न्यस्तं तत्तत्स्थानेषु 'हृदयाय नमः, शिरसे स्वाहा' इत्यादि षडङ्गन्यासप्रकारेण विन्यस्तं षडङ्गानां हृदयशिरःशिखाकवचनेत्रास्त्राणां चक्रं स- ङ्घस्तत्र निहितस्तन्मध्यगतत्वेन ध्यातः । 'मां कोऽपि मन्त्राधिदेवतात्मकत्वेनात्मानं ध्यात्वा मन्त्रमनुतिष्ठेत्' इत्यागमः । अत एव हृत्पद्मस्य हृदयकमलस्य मध्य उदितं प्रकाशमानं शिवरूपिणमात्मानं पश्यन्ती । इयमहं लयवशादूर्ध्वमाकृष्टस्य वायो- स्तेषु तेषु नाडीनिवेशेषु वृत्तिनिरोधो गगनगमनहेतुभूतो योगशास्त्रप्रसिद्धो लयः । तद्वशाद्धेतोर्नाडीनां पार्थिवाप्याग्नेयवायव्यनाभसाख्यानां पञ्चभूतप्रकृतिकानां ना- डीविशेषाणामुदयसाम्यावस्थातिरोधानक्रमेण तत्तद्गतांशार्कर्षणसाधनेन जगतो जङ्गमस्य जन्तुवर्गस्य यान्यारम्भकाणि पञ्चामृतानि न म्रियन्ते नात्यन्तं विनश्यन्ति कार्यकारणरूपेण सर्वदावस्थानादित्यमृतानि पञ्चमहाभूतानि तेषामाकर्षणात् । यद्वा--'विट् च मूत्रमसृङ्मज्जा शुक्रं पञ्चामृतं स्मृतम्' इति । तेषामाकर्ष- णादप्राप्तोत्पतनश्रमानुत्पन्नाकाशोड्डयनप्रयासा सत्यत एवाग्रेनभो नभसोऽग्रे- ऽम्भोमुचो मेघान्विघटयन्त्यपसारयन्तीदानीमभ्यागता । उद्देश्यं करालायतन- प्राप्तेत्यर्थः ॥ २ ॥ उद्वृत्तेति । उद्वृत्तोर्ध्वं विक्षिप्ता ततः स्खलिता च या कपालैरेव ग्रथिता कण्ठमाला ग्रीवालंकारस्तत्र संघट्टः कपालानां परस्पराभिघात- स्तेन क्वणिताः संजातक्वणाः । शब्दायमाना इति यावत् । कराला दन्तुराः किं- किण्यः कण्ठमालास्थापिताः क्षुद्रघण्टिका यत्र सः । गगनतलप्रयाणवेगो मयि पर्याप्तं परिपूर्णं रमणीयं मनोहरं डामरत्वमौद्धत्यं संधत्ते । संपादयतीत्यर्थः ॥ ३ ॥