मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 12, कुल 377 में से
संदर्भ में पढ़ेंअपि च । दन्तश्रेणिषु संगलत्कलकलव्यावर्तनव्याकुला नासालोचनकर्णकुञ्जकुहरेषूद्गद्गदध्वानिनः । गण्डग्रन्थ्यभिघातशीर्णकणिकाश्चूडास्रवन्त्युर्मयः शंभोर्ब्रह्मकपालकंदरपरिस्पन्दोल्वणाः पान्तु वः ॥ ३ ॥ अन्यच्च । पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव । अर्चिर्निष्टप्तचूडाशशिगलितसुधासारशात्कारिकोर्णं तार्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ ४ ॥ (नान्द्यन्ते ।) सूत्रधारः—अलमलम् । उदितभूयिष्ठ एव भगवानशेषभुवन- द्वीपदीपः । तदुपतिष्ठे । (प्रणम्य ।) दौ पन्थाः ॥२॥ दन्तश्रेणिष्वित्यादि श्लोकद्वयं प्रक्षिप्तमिति पूर्वैर्व्याकृतमपि क्वचि- त्पुस्तकेषु दृष्टत्वादस्माभिर्व्याख्यायते—दन्तेति । चूडास्रवन्त्युर्मयः शिरोनदीतर- ङ्गा वः पान्तु । ब्रह्मकपालकंदरपरिस्पन्दोल्वणा विधिशिरःकरोटिपरिखलनप्रभूताः दन्तपङ्क्तिषु संगलन्त्यः क्षरन्त्यः कलकलसहितेन व्यावर्तनेन परिश्र मणेन व्याकुलाः। नासादिषुषि रप्रदेशेषु बुद्बुदशब्दवत्यः । गण्डस्थलाभिघाताद्विशीर्णा अत्युन्नतप्रदेशा- दधो विषमस्थले पतन्त्यो निर्भरवारिधारा यासां ताः । स्वभावोक्तिरलंकारः ॥ ३॥ पक्ष्मेति । तृतीयमेव तार्तीयीकम् । 'तीयादीकक् खार्थे वक्तव्यः' इतीकक् । मदनप्लोषणं स्मरदाहि लोचनं वोऽवतु। कीदृक्। यत्पक्ष्मपङ्क्तिपिङ्गलतयाः सर्वोऽपि तडित्संघो लेशः । कालो मृत्युरेव यज्वा। ईषद्विघटितमुकुले किंचिदुन्मीलिते यस्मिन्नाहवनीयस्थाने जगद्धुतवान् । ज्वालासंतापितशिरश्चन्द्रकलासुधाधारानि- पातेन प्रतप्तायसि जलबिन्दुसेचनेनेव शात्कारिप्रीन्तम् । उदात्तालंकारः ॥४॥ अथ प्रस्तावनां विवक्षुस्तदङ्गतयोः प्ररोचनामुखयोः प्रथमं प्ररोचनां प्रस्तौति—नान्द्यन्त इति । कृतपूर्वरङ्गे प्रथमप्रविष्टे सूत्रधारे नान्दीं पठित्वावशिष्टं च प्रत्याहारमार्जनाद्ये- षनादिपूर्वरङ्गाङ्गकलापं निष्पाद्य विनिर्गते तत्सदृशोऽन्यः सूत्रधारः प्रविश्य प्रस्ताव- यतीत्यर्थः । तदुक्तं दशरूपके—'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमाख्यापयेन्नटः ॥' इति । प्ररोचनामुखलक्षणं तु—'निवेदनं प्रयो- ज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः शब्दैः सभायाश्चित्तरञ्जनम् ॥ कवि- काव्यनटादीनां प्रशंसा च प्ररोचना ॥' आदिशब्देन सभावस्तुनायकानां ग्रहणम् । 'सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदा- मुखम् ॥' इति । अलमिति । अनेकनान्दीश्लोकपाठकं पूर्वसूत्रिणं प्रति विलम्ब-