मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 126, कुल 377 में से
संदर्भ में पढ़ें१२० मालतीमाधवे विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामुखानां मुखैः ॥ १३ ॥ अपि च । एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृका- नुत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः । खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥ १४ ॥ (समन्तादवलोक्य विहस्य च ।) अहो प्रकारः पिशाचानाम् । ततः । पृथुचलरसनोग्रमास्यगर्तं दधति विदार्य विशीर्णशुष्कदेहाः ।
मुखगतोल्कादीप्तिवशादीषल्लक्ष्यमन्धकारवशात्स्फुटमलक्ष्यं च विशेषतः शुष्कं कृशं दीर्घमत्युन्नतं च वपुर्येषामुल्कामुखानानामन्वर्थानां पिशाचविशेषाणां मुखैर्नभ आकी- र्यत आकीर्णं भवतीति । कीदृशैः । कर्णयोरभ्यर्णमन्तिकं यावद्विदीर्णे विपाटिते ये सृक्वणी ओष्ठप्रान्तौ ताभ्यां विकटं यद्यादानं वदनकुहरविवरणं तेन दीप्तः प्रका- शमानोऽग्निर्यैषु तैः । दंष्ट्राणां कोटिभिरग्रैर्विशङ्कटैराकुलैः । इतश्चेतश्च धावद्भिः । प्रदीप्तोल्कासंबन्धेन मुखमात्रदर्शनात्तेषामपसरणमुक्तम् । तडित्समूहसंनिभकेशा- दिमिराननैः ॥ १३ ॥ एतदिति । एतत्पूतनानां पिशाचविशेषाणां चक्रमालो- क्यते दृश्यते । कीदृशम् । परितः सर्वत आदर्दरमीषद्वर्बरं यथा तथा । 'आघ- र्घरम्' इति क्वचित्पाठः । क्रन्दत आक्रन्दनं कुर्वाणान्वृकान्मांसाहारान्मृगविशेषा- नक्रमेणातिवृष्णया यौगपद्येनैकीकृत्य गृहीतो यो ग्रासः कवलपिण्डस्तस्यार्धमु- क्तैराधिक्याद्वदनविवरेऽद्यमानाद्भूमौ पतितैर्नृमांसस्य विघसैर्भुक्तशेषैः । उच्छिष्टै- रिति यावत् । उत्पुष्णत्पोषणं कुर्वाणम् । खर्जूरद्रुमदघ्ना तत्प्रमाणा जङ्घा यस्य तत्तथा । असितया त्वचा नद्धाः परीताः विष्वक्सर्वतस्तता व्याप्ताः स्नायुग्रन्थयः सिराप्र- न्थयस्ताभिर्घनं निबिडमस्थिपञ्जरं रक्तमांसमज्जादिभिर्विहीनतया केवलं पञ्जरीभू- तान्यस्थीनि यस्य तादृक्च जरतोऽतिचिरकालजीवनाज्जराजीर्णाः कङ्कालाः शरीरा- स्थीनि यस्य तादृक्चेति विशेषणसमासः । 'कङ्कालः पुंसि कायास्थि' इति विश्वः ॥ १४॥ समन्तादवलोक्य विहस्य च । आहेति शेषः । विहसनेन च तादृ- शभयंकरदर्शनेऽपि वीतशङ्कतासूचनान्नायकस्यातिमनस्विता कथिता । पृथुच- लेति । विशीर्णा विशेषेण शीर्णा व्रणकिणगण्डादिबहूपद्रववशाद्विशकलिताः शुष्का मांसरुधिरादिशून्यतया नीरसा देहा येषां ते पिशाचाः पृथु विशालं चल्या कम्प- मानया रसनयोप्रम् 'पृथुतररसनोग्रम्' इति पाठेऽतिस्थूलतया रसनयोप्रमास्यगर्तं गर्तमिवास्यम् । उपमितसमासः । अत एव समाससामर्थ्यात्तद्वाचिलोपे लुप्तोपमा ।