मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 140, कुल 377 में से
संदर्भ में पढ़ें१४४ मालतीमाधवे अदपं कंदर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३० ॥ व्यवसायक्रियायाः सर्वत्रान्वयात्क्रियादीपकं च वाच्यालंकारौ । चन्दनचामीक- रादीनां न वस्तुतः सारत्वम्, किंतु पामरजनप्रसिद्धयैव । इयमेव सारभूतेत्यपह्नवः, सर्वसारवस्तूपमानानि यानि तेभ्योऽपि सारभूतेयमेवेति व्यतिरेकश्च व्यङ्ग्याविति सर्वत्र द्रष्टव्यम् । तथा त्रिभुवनं त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'पात्रा- दिभ्यः प्रतिषेधो वक्तव्यः' इति वचनात् 'द्विगोः' इति ङीप् भवति । परिमुषितं लुण्ठितं रत्नं यस्य तत्कर्तुम् । सत्स्वपि कौस्तुभकनकादिषु न ते रत्नवत्त्रिभुवनम् । न च तानि वस्तुनो रत्नानि । अविवेकिनां तु तत्र रत्नत्वव्यपदेशः समीचीनव- स्तूपमानत्वप्रसिद्धिश्च । इयमेव त्रिभुवनस्य सकलरत्नातिशायिगुणशालिन्येकं रत्नमिति निगीर्याध्यवसानम् । तां हन्तुं प्रवृत्तः रत्नशून्यमेव जगत्कर्तुं प्रवृत्तोऽसी- त्यर्थः । अलंकारयोगः पूर्ववत् । तथा लोकं प्रमाणषट्कपथपथिकं प्रपंचं निरालोकं प्रकाशशून्यं केवलमन्धकाराक्रान्तं कर्तुम् । न खलु सौरादिभिरालोकैः सालोकोयं लोकः । तेषां जडरूपाणां प्रकाशान्तरप्रकाश्यत्वेनाभासत्वात् । अनयैव पुनरानन्दै- करससंविन्मयप्रकाशात्मिकया त्रिभुवनभवनलोकोत्तररत्नप्रदीपकलिकया समुद्भा- सितोऽयं ससूर्यचन्द्रादितेजस्को लोकः । तदिमां निर्वापयितुकामः जगदन्धं कर्तु- कामोऽसीत्यर्थः । तथा बान्धवजनं सकलमपि बन्धुवर्गमेतदेकजीवितं मरणमेव शरणमेतद्विपत्तिजनितशोकनिराकरणसमर्थं यस्य तत्तादृशं कर्तुम् । इदं चावान्तर- वाक्यं सहचरभिन्नम् । इह हि महावाक्यरूपे श्लोकोऽसारं संसारमित्यादिभिर- वान्तरवाक्यैर्मालत्याः सकललोकातिशायिलावण्यादिगुणशालित्वेन सर्वपदार्थो- त्कर्षत्वं तदन्वयव्यतिरेकाभ्यामेव लोकस्योपादेयत्वान्वयव्यतिरेकौ चेत्येतावद्भङ्गि- वैचित्र्येण प्रौढोक्तियुक्त्या च निरूप्यते । तत्र चानेन वाक्येन मालत्या उत्कर्षो न प्रतिपाद्यते । बान्धवा हि काणकुब्जदुःशीलापत्यनाशेऽपि मरणशरणा भवन्ति न च तदन्वयाल्लोकस्योपादेयता कदाचित् । नापि तद्व्यतिरेकादनुपादेयत्वम् । बहुतरश्रेष्ठवस्तुप्रचुरत्वादेव तदुपादानसिद्धेः । तत्तद्यावदुत्कर्षप्रतिपादकवाक्य- मध्ये तद्विजातीयतया सहचरैर्भिन्नं तन्निकृष्टत्वाद्विरुद्धमिदं वाक्यं षाण्मासि- कमुक्ताफलप्रथितहारलतामध्ये बराटिकेव नायकत्वेन निवेशनं नार्हति प्रक- मभङ्गश्च स्यात् । प्रक्रान्तातिशयोक्त्याद्यलंकाराणामुपर्युपरि निबद्धानामकाण्डे विच्छेदात् । केचित्तु जनमित्युदासीनवाचिना जनशब्देन माधवः प्रेयसीवि- नाशदुःखोत्तारोपायान्तरमपश्यन्तं मरणमेव तदुपायत्वेनाधिगच्छन्तमात्मानं निर्दिशति । तेन तन्नाशे स्वस्य मरणमेवेति तल्लावण्यातिशयप्रकाशनान्नोक्तदोष इति व्याचक्षते । तदसत् । बान्धवजनमित्युक्ते स्वनिर्देशस्य कथंचिदप्यप्रतीतेः प्रतीतो वा नैतावता तस्या उत्कर्षः । सर्वो रागान्धः सहृदयाभिमतमेव वस्त्व- धमभूतमपि सर्वलोकोत्तरमित्यभिमन्यते । तथा हि—'या यस्याभिमता लोके सा तस्याधिकरूपिणी' इति । अत एव चक्रवाकोऽपि स्वप्रियाविरहे जगदेव शू-