मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 150, कुल 377 में से
संदर्भ में पढ़ें१४४ मालतीमाधवे कोऊहलुप्फुल्लमुहसमत्थलोअदिस्सन्तमणहरप्पण्डुरपरिक्खामदेहसो- हाविभाविआणङ्गवेअणा पुढमचन्दलेहाविब्भमं वहन्दी किंचिअन्तरं पसरिदा मालदी । मकरन्दः—वयस्य, पश्य । इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी । वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्भूतां च व्यनक्ति मनोरुजम् ॥ ६ ॥ कथं निषादिता गजवधूः । माधवः—(सानन्दम् ।) कथमवतीर्य भगवती लवङ्गिकाभ्यां प्रवृत्तैव । (ततः प्रविशति कामन्दकी मालती लवङ्गिका च ।) कामन्दकी—(सहर्षमपवार्य ।) पाण्डुरपरिक्षामदेहशोभाविभावितानङ्गवेदना प्रथमचन्द्रलेखाविभ्रमं वहन्ती किंचिदन्तरं प्रसृता मालती । अत एव विशेषणद्वयस्य सामर्थ्यात्प्रथमचन्द्रलेखायाः प्रतिपच्चन्द्रकलाया विभ्रमं वहन्ती किंचिदन्तरं परिजनमण्डलादपसृत्यान्यदेशं प्रसृता मालती । कथमन्य- विभ्रममन्या वहेदित्यसंभवधर्मयोगात्संध्यारागोपरक्ततारावलीविभूषितरज