मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 177, कुल 377 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । १७१ मदयन्तिका—सहि, पसीद । अथवा ण तुम्हे फुडं भणिदावो चिट्ठह । किंअ अम्हे सच्चं एव्व माहवेकमअजीविदं मालदिं जा- णामो । केण वा कठोरकेअईगब्भविब्भमावअवदोव्वलणिव्वट्टिद- सुन्दरत्तणविसेसं माहवसहत्यणिम्माविदबउलावलीविरइअकण्ठावल- म्बणमेत्तसंजीवर्ण मालदीए माहवस्स अ पहादचन्दमण्डलापाण्डुर- परिक्खामरमणिज्जदंसणं ण विभावितं सरीरं । किंअ तस्सिं दिअ- से कुसुमाउरुज्जाणपेरन्तरच्छासुहसमागमे सविब्भमुल्लसिअकोऊह- लुप्फुल्लपरिसरुब्वेल्लमाणसविलासमसिणसिणिद्धसंचरणचारुतारआवि- अब्भमाणअङ्गासङ्गाराआरिसव्वआमोपदेसणिम्माविदविअद्धमुद्ध- मणहारा मए ण णिरूविदा इमाणं दिट्ठिसंभेदा । किंअ मह भा- दुणो दाणउत्तन्दं सुणिअ तक्खणुव्वत्तगम्भीरुब्बेअवइअरन्धआरिअ-
१. सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्तिष्ठथ । किंच वयं सत्यमेव माधवैक मयजीवितां मालतीं जानीमः। केन वा कठोरकेतकीग- र्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेषं माधवस्वहस्तनिर्मितबकुलाव- लीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रम- ण्डलापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दि- वसे कुसुमाकरोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्ल- परिसरोग्वेल्लमानस विलासमसृणस्निग्धसंचरण चारुतारकाविजृम्भमाणानङ्गशृङ्गा- राचार्यसर्वागमोपदेशनिर्मित वैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्दृष्टि- संभेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिक- रान्धकारितम्लायमानदेहशोभयोरुद्धर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् ।
मन्त्रयिष्ये ॥ मदयन्तिका । सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्ति- ष्ठथ । किंच वयं सत्यमेव माधवैक मयजीवितां मालतीं जानीमः । केन वा कठो- रकेतकीगर्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेषं माधवस्वहस्तनिर्मितबकु- लावलीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रमण्ड- लापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दिवसे कुसुमा- करोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्लपरिसरोद्वेल्लमानस- विलासमसृणस्निग्धसंचरणचारुतारकाविजृम्भमाणानङ्गशृङ्गाराचार्यसर्वागमोपदेश- निर्मितवैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्दृष्टिसंभेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिकरान्धकारितम्लायमानदेह- शोभयोरुद्धर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् ॥ १६ मालतीमा०