मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 182, कुल 377 में से
संदर्भ में पढ़ें१७६ मालतीमाधवे लवङ्गिका—जइ एवं ता कहेहि कहं णु दे कालो ग- च्छदि त्ति। मदयन्तिका—णिसामेहि पिअसहि, मम बुद्धरक्खिदापक्खवा- दप्पच्चएण पुढमं एव तस्सिं जणे अविरलकओहलुकण्ठामणहरं हिअअं आसी। तदो विहिणिओइअचिरणिउत्तदंसणा भविअ दुबारदारुणा- आसदुक्खसंदावडज्झन्तचित्तविहडन्तजीविदासा दूरविजम्भिआपूव्व- सव्वङ्गप्पज्वलनमणहुदवहद्दुद्दामदाहदूहसआआसदुम्मणाअन्तपरिअणा पच्चासाविमुक्खमेत्तसुलहमित्तुणिबाणपडिऊलबुद्धरक्खिदावअणविव- ड्ढिआवेअवइअरविसंठुला इमं जीवलोअपरिवत्तं अणुहोमि। संकप्प- चिन्ताए सिविणन्तरेसु अ मणोरहुम्मादमोहिदा पेक्खामि तं जणं। तह १. यद्येवं तत्कथय कथं नु ते कालो गच्छतीति। २. निशामय प्रियसखि, मम बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तस्मिञ्ज- नेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत्। ततो विधिनियोजितचिरनिर्वृ- त्तदर्शना भूत्वा दुर्वारदारुणायासदुःखसंतापद्ह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वाङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमान- परिजना प्रत्याशाविमोक्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धि- तावेगव्यतिकरविसंस्थुलेमं जीवलोकपरिवर्तमनुभवामि। संकल्पचिन्तायां स्वप्नान्तरेषु च मनोरथोन्मादमोहिता पश्यामि तं जनम्। तथा च प्रियसखि, मुहूर्तमुद्गूढविस्मयविसंस्थुलोद्वेलविस्तारिप्रान्तनालरक्तनेत्रपुण्डरीकखण्डचोद्भट- सखीनाम् ॥ लवङ्गिका । यद्येवमसद्विधेयासि तत्कथय कथं नु ते कालो गच्छ- तीति। तादृशकाङ्क्षाप्राप्तानुरागविषयं दयितमलभमाना कथं दिवसानतिवाहयसीति भावः ॥ मदयन्तिका । निशामय शृणु प्रियसखि, मम बुद्धरक्षितापक्षपातप्र- त्ययेन प्रथममेव तस्मिञ्जनेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत्। नास्थाने बुद्धरक्षितापक्षपातं करोतीति तत्स्नेहादेव संभावितसकलनायकगणगरीयानिति प्र- लयो विश्वासोऽस्त्वेवेति भावः। ततो विधिनियोजितचिरनिर्वृत्तदर्शना भूत्वा दुर्वा- रदारुणायासदुःखसंतापद्ह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वा- ङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमानपरिजना प्रत्याशाविमो- क्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धितावेगव्यतिकरविसंस्थुलेमं जीवलोकपरिवर्तमनुभवामि। मकरन्दप्रत्याशानिवृत्तमात्रेण सुलभो मृत्युरेव निर्वा- णं निर्वृतिस्तत्प्रतिकूलं बुद्धरक्षितावचनं संनिहितमकरन्दप्राप्तिप्रतिपादकं तेन संव- र्धितो य आवेग उद्वेगस्तेन विह्वलेत्यर्थः। संकल्पचिन्तायां स्वप्नान्तरेषु च मनोर-