मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 22, कुल 377 में से
संदर्भ में पढ़ें१४ | मालतीमाधवे अवलोकिता—अच्चरिअं अच्चरिअं । ण क्खु अमच्चो माहवस्स णामं वि जाणादित्ति णिरवेक्खदा लक्खिअदि । कामन्दकी—वत्से, संवरणं तत् । विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः । तेन माधवमालत्योः कार्यः स्वमतिनिह्नवः ॥ १५ ॥ अपि च— अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः । श्रेयो ह्यस्माकमेवं हि प्रतार्यौ राजनन्दनौ ॥ १६ ॥ १. आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति नि- रपेक्षता लक्ष्यते । लात् ॥१४॥ अवलोकिता—आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति माधवे निरपेक्षता लक्ष्यते । कथं तस्मै सुतां प्रदित्सुस्तं माधवमप्यजा- नान इव तस्मिन्नैस्पृह्यमाचरतीत्यर्थः ॥ कामन्दकी—संवरणं तत् , राजभयेनाका- रगोपनं तत् । अज्ञाननटनमित्यर्थः । इतोऽप्यज्ञानं नटनीयमित्याह—विशेषत- स्त्विति । बाल्यानन्तरभावित्वाद्वयसः। तद्धर्मानुवृत्तेश्च । बाल्यमिह प्रथमयौवन- मुच्यते । तेन युक्तायुक्तविचारविधुरे, आकारगोपनानभिज्ञे, मदनाज्ञैकवशंवदे, गुरु- जनसुलक्ष्यापि मनोरथं संपादयितुमुद्युञ्जाने, प्रथमयौवने वर्तमानत्वाद्विवृतभावयोः प्रकटीभूतान्योन्यानुरागकुण्ठीभावपरिहारार्थं विशेषतः स्वमतेस्तदन्योन्यानुरागवि- षयाया निह्नवः कार्यः प्रच्छादनं कर्तव्यम् । मालत्यपि माधवानुरक्तां मां तातो न जानातीति यथा मन्यते, माधवोऽपि खसुतानुरक्तं माममात्यो न वेत्तीति यथा प्रत्येति, तथा तदज्ञानं नाटयितव्यम् । तथा सति, अकुण्ठितोत्साहयोस्तयोः स्वत एवाभिमतसंघटनं सिध्येत् । अन्यथा गुरुजनेन विदितमस्मच्चापलमिति लज्जया तदुद्योगभङ्गादभिलषितः कृतकपरिणयो न निष्पद्येतेति भावः । अत्र नायकयोर- न्योन्यानुरागस्य बीजस्योपन्यासादुपक्षेपो नाम मुखसंधेरङ्गमुक्तं भवति । यथा— ‘बीजन्यास उपक्षेपः’ इति ॥१५॥ **अनुरागेति—**अमात्यो माधवस्य नामापि न जानातीत्येतत्संवरणमात्रमिति किं वक्तव्यम् । यतः वत्सयोरुभयोरपि, कामन्दकीं प्रति प्रियसुहृदपत्यत्वाद्वत्सयोरिति निर्देशः । अनुरागप्रवादः सार्वलौकिकः सर्वलो- कविदितः ‘लोकसर्वलोकाभ्याम्—’ इति ठञ् । अनुशतिकादित्वाद्युभयपदवृद्धिः । पामरा अपि जानन्ति किमुतामात्य इति भावः । अनेन बीजस्य बहुलीकरणात्परि- करो नाम संध्यङ्गमुक्तं भवति । यथा—‘तद्बाहुल्यं परिकरः’ इति । एवं च सत्य- स्माकं श्रेयो भवति । कुतः । हि यस्माद्राजनन्दनौ प्रतार्यौ वञ्चयितुं शक्यौ स्याताम्। यदि कृतकपरिणये वृत्ते राजा नन्दनो वा कुप्येत् कथमनया वराक्या भिक्षुकया- स्मद्विरोध आचरित इति, तदा न ममात्र दोषः तावन्योन्यानुरागवशेन स्वत एव संमिलितौ । स चानुरागः सर्वलोकप्रसिद्ध इत्यस्माकं तद्वचनं सुलभमित्यर्थः ।