भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 22, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 22

१४ | मालतीमाधवे अवलोकिता—अच्चरिअं अच्चरिअं । ण क्खु अमच्चो माहवस्स णामं वि जाणादित्ति णिरवेक्खदा लक्खिअदि । कामन्दकी—वत्से, संवरणं तत् । विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः । तेन माधवमालत्योः कार्यः स्वमतिनिह्नवः ॥ १५ ॥ अपि च— अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः । श्रेयो ह्यस्माकमेवं हि प्रतार्यौ राजनन्दनौ ॥ १६ ॥ १. आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति नि- रपेक्षता लक्ष्यते । लात् ॥१४॥ अवलोकिता—आश्चर्यमाश्चर्यम् । न खल्वमात्यो माधवस्य नामापि जानातीति माधवे निरपेक्षता लक्ष्यते । कथं तस्मै सुतां प्रदित्सुस्तं माधवमप्यजा- नान इव तस्मिन्नैस्पृह्यमाचरतीत्यर्थः ॥ कामन्दकी—संवरणं तत् , राजभयेनाका- रगोपनं तत् । अज्ञाननटनमित्यर्थः । इतोऽप्यज्ञानं नटनीयमित्याह—विशेषत- स्त्विति । बाल्यानन्तरभावित्वाद्वयसः। तद्धर्मानुवृत्तेश्च । बाल्यमिह प्रथमयौवन- मुच्यते । तेन युक्तायुक्तविचारविधुरे, आकारगोपनानभिज्ञे, मदनाज्ञैकवशंवदे, गुरु- जनसुलक्ष्यापि मनोरथं संपादयितुमुद्युञ्जाने, प्रथमयौवने वर्तमानत्वाद्विवृतभावयोः प्रकटीभूतान्योन्यानुरागकुण्ठीभावपरिहारार्थं विशेषतः स्वमतेस्तदन्योन्यानुरागवि- षयाया निह्नवः कार्यः प्रच्छादनं कर्तव्यम् । मालत्यपि माधवानुरक्तां मां तातो न जानातीति यथा मन्यते, माधवोऽपि खसुतानुरक्तं माममात्यो न वेत्तीति यथा प्रत्येति, तथा तदज्ञानं नाटयितव्यम् । तथा सति, अकुण्ठितोत्साहयोस्तयोः स्वत एवाभिमतसंघटनं सिध्येत् । अन्यथा गुरुजनेन विदितमस्मच्चापलमिति लज्जया तदुद्योगभङ्गादभिलषितः कृतकपरिणयो न निष्पद्येतेति भावः । अत्र नायकयोर- न्योन्यानुरागस्य बीजस्योपन्यासादुपक्षेपो नाम मुखसंधेरङ्गमुक्तं भवति । यथा— ‘बीजन्यास उपक्षेपः’ इति ॥१५॥ **अनुरागेति—**अमात्यो माधवस्य नामापि न जानातीत्येतत्संवरणमात्रमिति किं वक्तव्यम् । यतः वत्सयोरुभयोरपि, कामन्दकीं प्रति प्रियसुहृदपत्यत्वाद्वत्सयोरिति निर्देशः । अनुरागप्रवादः सार्वलौकिकः सर्वलो- कविदितः ‘लोकसर्वलोकाभ्याम्—’ इति ठञ् । अनुशतिकादित्वाद्युभयपदवृद्धिः । पामरा अपि जानन्ति किमुतामात्य इति भावः । अनेन बीजस्य बहुलीकरणात्परि- करो नाम संध्यङ्गमुक्तं भवति । यथा—‘तद्बाहुल्यं परिकरः’ इति । एवं च सत्य- स्माकं श्रेयो भवति । कुतः । हि यस्माद्राजनन्दनौ प्रतार्यौ वञ्चयितुं शक्यौ स्याताम्। यदि कृतकपरिणये वृत्ते राजा नन्दनो वा कुप्येत् कथमनया वराक्या भिक्षुकया- स्मद्विरोध आचरित इति, तदा न ममात्र दोषः तावन्योन्यानुरागवशेन स्वत एव संमिलितौ । स चानुरागः सर्वलोकप्रसिद्ध इत्यस्माकं तद्वचनं सुलभमित्यर्थः ।