मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 241, कुल 377 में से
संदर्भ में पढ़ेंदशमोऽङ्कः । २३७ कामन्दकीमकरन्दौ—महाभागे, पुनः परित्रायस्व नः । किमर्थमन्तर्हितासि । मदयन्तिकालावङ्गिके—सँहि मालदि, णं भणामि सहि मा- लदि त्ति । (सोत्कम्पम् ।) भअवदि, परित्ताहि । चिरणिरुद्धणिस्सास- णिच्चलं से हिअअं । हा अमच्च, हा पिअसहि, तुह्मे दुवे वि पर- प्परावसाणस्स कारणं जादा । कामन्दकी—हा वत्से मालति । माधवः— हा प्रिये मालति । मकरन्दः—हा प्रियसखि । (सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते ।) कामन्दकी—तत्किमेष झटिति पाट्यमानादिवाम्बुदादम्बुनि- वहः परिस्खलन्नस्मान्प्रीणयति । माधवः—(सोच्छ्वासम् ।) अये, प्रत्यापन्नचेतनेव मालती । तथा- ह्यस्याः भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । १. सखि मालति, ननु भणामि सखि मालतीति । भगवति, परित्रा- यस्व । चिरनिरुद्धनिःश्वासनिश्चलमस्या हृदयम् । हा अमात्य, हा प्रिय- सखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ । वचनं भूरिवसुर्वह्निपतनाय सुवर्णबिन्दुमभ्येतीत्येवंरूपम् । तस्मादनन्तरमन्तर्हितां न पश्यामि ॥ १४ ॥ कामन्दकीमकरन्दौ । किमर्थं तिरोहितासि । मालतीविप- न्निराकरणद्वारेदानीमपि भूरिवसुविनाशरुपमालतीविपत्तित्रासेन पुनर्नोऽस्मान्परि- त्रायस्वेत्यर्थः । मदयन्तिकालावङ्गिके । सखि मालति, ननु भणामि सखि मालतीति । विलापोक्तिप्रभेदोऽयम् । भगवति, परित्रायस्व । चिरनिरुद्धनिःश्वासनिश्च- लमस्या हृदयम् । हा अमात्य, हा प्रियसखि, युवां द्वावपि परस्परावसानस्य कारणं जातौ । द्वयोरपि विनाशहेतुरित्याशयः ॥ कामन्दकी । पाट्यमानादिवेति स्वाभाविकवर्षविलक्षणाकाण्डप्रवृत्तारम्भः पतननिमित्तकोकिरियम् । प्रीणयति संतर्प- यति । जीवयतीत्यर्थः ॥ माधवः । प्रत्यापन्नचेतनेव प्रत्यापन्नजीवितेव । तल्लिङ्गा- न्याह—भवतीति । प्रथमं निरुद्धः पश्चाद्विततो विस्तारितो यः श्वासोन्नाहस्तेन प्रणुन्नौ पयोधरौ यत्र हृदये तत्तादृक् । उन्नाह उच्छ्रायः । चक्षुरपि च यन्मोहप्र- भावादस्निग्धमासीत्तत्प्रकृतौ तत्स्वभावे स्थितं मुग्धमभूदित्यर्थः । अत्र निजेति