मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 246, कुल 377 में से
संदर्भ में पढ़ें१४२ मालतीमाधवे तेनेयं मदयन्तिकापि भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ १३ ॥ (माधवमुद्दिश्य सहर्षम् ।) वत्स, श्रूयताम् । माधवः—श्रुतम् । इदानीं सर्वथा कृतार्थोऽस्मि । मालती—दिट्ठिआ एदं वि दाव अवगदं हिअअस्स सङ्कासल्लं । लवङ्गिका—संपदं णिरवसेसं पूरिआ माहवसिरिणो मणोरहा । मकरन्दः—(पुरोऽवलोक्य ।) कथमवलोकिताबुद्धरक्षिते कलहंसश्च दूरतः समागतानस्मान्वीक्ष्य तत्रैव हर्षनिर्भरं नृत्यन्त इत एवागच्छन्ति । (ततः प्रविशतोऽवलोकिताबुद्धरक्षिते कलहंसश्च ।) ते—(विविधं नृत्यं कृत्वा सर्व उपसृत्य सप्रमाणं कामन्दकीं प्रति ।) अउँ मअवदि कज्जाणिहाणे । (माधवं प्रति ।) जअ मअरन्दणन्दण माहव पुण्णचन्द, दिट्ठिआ वड्ढसि । (सर्वे सस्मितं पश्यन्ति ।) १. दिष्ट्या एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् । २. सांप्रतं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । ३. जय भगवति कार्यनिधाने । जय मकरन्दनन्दन माधव पूर्णचन्द्र, दिष्ट्या वर्धसे । निरस्तविपदि महाकुले जामातरि त्वयि प्रीतिरुचितेत्याशयः । तेन हेतुना पूर्वानु- रागेण प्राणात्ययनरूपेण योजितापि तव प्रीत्यर्थं तव मित्राय मकरन्दायास्माभिर्दीयते इत्यर्थः ॥ १३ ॥ माधवमुद्दिश्य कामन्दकी वदति—श्रूयतामिति । माधवः । निखिलार्थ इति शेषः । नृपतिनन्दनादिना सर्वथा कृतार्थोऽस्मीत्यर्थः ॥ मा- लती । दिष्ट्या, एतदपि तावदपगतं हृदयस्य शङ्काशल्यम् ॥ लवङ्गिका । सांप्र- तं निरवशेषं पूरिताः श्रीमाधवस्य मनोरथाः । प्राकृते पूर्वनिपातस्यानियमतया श्री- शब्दस्योत्तरनिपातलक्षणं भवति ॥ कार्यनिधानशब्दादण्प्रत्ययेन निधानसंबन्धरू- पं सर्वं कार्यजातं त्वयैकया निष्पादितमिति त्वमेव कार्याणां निधिः । जय मकर- न्दनन्दन माधव पूर्णचन्द्र । मकरन्दस्य मदयन्तिकालाभादपि माधवस्य मालती- लाभ एवातिशयानन्द इति मकरन्दनन्दनत्वे वाचोयुक्तिः । पापवृद्धिपक्षपर्यन्त- त्वेन पूर्णश्चन्द्रः । संप्राप्ताखण्डमनोरथतयास्य पूर्णचन्द्रस्योक्तिः । दिष्ट्या वर्धसे । सस्मितं पश्यति । तेषां प्रमोदवृत्तमिति शेषः । भगवत्यन्तेवासिन्यवलोकिता नृत्य-