भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 308, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 308

६० जगद्धरकृता [ अङ्कः ५

पृ० प० ११५ १ अतिमुक्तमङ्गयो० । ३ अपि कर्णजाह० । ४ तदङ्ग- परिवर्तमा० ।

रतिशया भा यत्र तादृशमाननं यस्य । अत एव हेयत्वार्थं मृगाङ्कपदेनोपन्यासः । यस्य वामः पाणिविनयं हरत्यपनयति । तत्र हेतुमाह । प्रविगलदसृक्पङ्कः स्रवद्रु- धिरकर्दमः । ललच्चञ्चलं नरजाङ्गलं महामांसं यत्र सः । न हि विनीतो रक्तं महा- मांसं च धारयति । अत्र पूर्वार्धेन ललितमुत्तरार्धेन विकटत्वमुक्तम् । अत एव व्यक्तसाहसः । महामांसधारित्वेन वीरबीभत्सरसावुक्तौ । यदाह—'उत्साहाद्यव- सायाद्विस्मयहर्षाच्च मोहाच्च । विविधाद्वन्धविशेषाद्वीररसो नाम संभवति ॥ अन- भिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उत्तेजनैश्च बहुभिर्बीभत्सरसः समुद्भव- वति ॥' दधदित्यत्र 'नाभ्यस्ताच्छतुः' इति नुमो निषेधः । 'जङ्गलं निर्जनस्थाने त्रिलिङ्ग्यां पिशितेऽस्त्रियाम्' इति मेदिनीकारः ॥ ५ ॥ पणायिता विक्रेता । विगलितप्रायो भ्रष्टप्रायः ॥ व्योम्न इत्यादि । गगनस्योपान्ता ध्वान्तलताभिर्व्या- प्यन्ते । तमालपुष्पस्तबकपङ्क्तिभिरिव । एवं च पृथिव्युपान्तभागेन नूतने जले मज्जतीव । उत्प्रेक्षेयम् । त्रियामा रात्रिः । प्रारम्भे प्रदोषमात्रेऽपि नीलत्वं निजं वनेषु तरुणयति । कीदृशम् । वातानां समूहो वात्या तस्याः संवेगेन निवर्तनेन विष्वक् चतुर्दिशं वितता विस्तारिता वलयिता वलयाकारा स्फीता गभीरा या धूम्या धूमसमूहो नीहारो वा तत्सदृशम् । एवं चान्धकारोपमाद्गतप्राया संध्ये- त्यर्थः । 'धूम्या धूमसमूहेऽपि नीहारेऽपि निगद्यते' इति धरणिः ॥ ६ ॥ साशंसं सप्रार्थनम् । प्रेमेत्यादि । मुग्धदृशो मालत्यास्तास्ता अनुभूताश्चेष्टाः संभोगे चुम्ब- नादयो मयि पुनर्भूयासुः । 'चेष्टाविशेषाः संभोगे चुम्बनालिङ्गनादयः' इति कण्ठाभरणम् । कीदृश्यः । प्रथमं प्रेम्णा संभोगप्रीत्यार्दा इव तापशान्तिहेतुरोमाञ्चा- दिजनकत्वात् । ततो विश्वासमुपेत्य चित्तप्रसादस्पृशः । ततः परिचयात्सुखास्वा- दभेदादुद्भूतरागोद्रेकाः । निसर्गमधुराः सहजमनोज्ञाः । यास्वाशंसोपनीतास्वपि क्षणान्निरतिशयसुखघनो लयो लीनता भवति तासु चेष्टासु मनो लीयत इत्यर्थः । कीदृशः । अन्तःकरणस्य मनसो बाह्येन्द्रियव्यापारावरोधनशीलः । मालतीमय- त्वेन तन्मनो बाह्यविषये न व्याप्रियत इत्यर्थः । अत एवानेकशङ्कातङ्कसंकुलेऽपि तत्र स्थाने माधवस्य न साध्वसादिकमपीति भावः । यद्वा । तास्ताश्चेष्टा बकुलवीथ्यादिषु यास्तया कृतास्तास्ता मयि भवेयुः । तासामेव दुर्लभत्वादाशंसनीयता ॥ प्रथम- प्रीतिहेतुत्वादालिङ्गनमाशास्ते— अतिमुक्तेत्यादि । प्रियया सह तदङ्गपरिवृत्ति- मप्यहमाप्नुयाम् । तत्तस्या अङ्गे क्रोडे सर्वतोभावेन वर्तनम् । हृदयालिङ्गनमित्यर्थः । अपिर्भिन्नक्रमः । यद्वा तदङ्गे परिवर्तनमूर्ध्वाधःक्रमेण पुरुषायितमाप्नुयाम् । कीदृशः । प्रियया कर्णजाहे कर्णमूले विनिवेशितमाननं यत्र । ममापि सः । प्रथमपक्षे कर्ण- मूलेऽर्पितमाननं येन सः । 'तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ' इति मूले जाहच्प्रत्ययः । अतिक्रान्ता मुक्ता यया सातिमुक्ता । मुक्ता मुक्ताहा-

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 308, कुल 377 में से · BharatKosha