भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 332, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 332

८४ जगद्धरकृता [ अङ्कः ६ नालं यस्य तम् । 'कण्टकः क्षुद्रशत्रौ च रोमाञ्चेऽपि च दृश्यते' इति विश्वः । आर्द्राङ्गस्य एव दलानि पत्राणि यस्य तम् । रोमाञ्चितत्वार्द्रत्वे सात्त्विकभावात् । अहं कीदृशः । अनङ्ग एव ग्रीष्मस्तेन तप्तः । तथा च कामतापप्रशान्त्यर्थं करग्रह- णमित्यर्थः । पद्मस्याप्युद्धृततया तस्य कण्टकितकोमलनालत्वमार्द्रपत्रत्वं च भव- ति । गजोऽपि ग्रीष्मतप्तः । पद्मपक्ष आमूलं कन्दर्पपर्यन्तम् । तदनेनानन्तरकर्त- व्यताव्यवसायस्य धैर्यमुक्तम् ॥ २० ॥ सूते स्म यं रत्नधरः पवित्रः पवित्ररूपा मदयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कः षष्ठोऽगमद्भव्यरसाधिवासः ॥ इति षष्ठोऽङ्कः ।

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 332, कुल 377 में से · BharatKosha