भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 336, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 336

८८ जगद्धरकृता [ अङ्कः ७

पृ० प० १६५ २ ०सद्दो सुणीअदि तह० । १२ ०वासभवणदुवारं । १६६ ४ घेहि जदो ए । ५ ईस मण्णु उज्झिअ पसुत्तेत्ति । तदो० । ६ ०अणुप्पन्ते उव० । ०मसिणं ससिणे- हअरो० ।

कस्मात्कदम्बगोलकाकारमाश्रितः । बहलपुलकशालित्वात् । विकलो विह्वलः सन् । कीदृशः । विशुद्धो निष्कलङ्कः । कामाभिषङ्गदोषशून्य इति यावत् । मुग्धो रसानभिज्ञः । सर्वमिदं सोत्प्रासम् । अत एव वैदग्ध्यतया शिल्पकारिणीत्वेन सं- स्कृताश्रयणम् ॥ १ ॥ मदयन्तिका । अत्र उपहससीति नाहं मकरन्दानुरक्त- तया हृष्टा किंतु तद्वीरत्वमभिनन्दामीति न हासस्थानमिति भावः । अत एव चित्तचोरिकयाह—नन्विति । एवं स्वहर्षस्यान्यथासिद्धिमुक्त्वा निजाङ्गसङ्गजं खे- दादिकं मकरन्देऽन्यथयति—तथा चेति । विस्तारितशरीरेति मूर्च्छाकथनम् । संगलितो मिलितः । उत्पीडः पूरः । कन्दोहो नीलोत्पलम् । मोहेति मोहेन नेत्र- मीलनं नतु मदङ्गसङ्गादिति भावः । यदाह—'व्यसनासिघातभयपूर्वैर्वैरस्मरणजो भवति मोहः' इति प्रहारमूर्च्छने कथमयं भूमौ न पतितोऽत आह—भूमीति । विष्टम्भः संबन्धः । विच्छर्दितः परित्यक्तः । महामहार्घमतिदुर्लभम् । जीवलोको मर्त्यभुवनम् । प्रियालिङ्गनस्मरणादिना खेदादिकम् । खेदादीनित्यनेन किलकिंचित- भावाविष्करणम् । यदाह—'यदन्तर्निहितस्याङ्गैः सव्यापारैर्मनोभुवः । सव्रीडावि- ष्कृतिः स्त्रीणां तदाहुः किलकिंचितम् ॥' अत्र खेदादिमता तव शरीरेण मकर- न्दसंभोगोऽभिलषित इत्यर्थः । लवङ्गिका । अत्र सहवासिन्याः सख्याः । नाहं कामजखेदादिनोद्विग्ना किंतु तद्विस्रम्भकथयेति भावः । अभिण्णहीति पाठेऽभिज्ञा- तासीत्यर्थः । अत्र जानीम एवेति कामन्दक्यादिद्वारा तव मकरन्दस्य च चेष्टितं ज्ञातमेव । तत्कथमपह्नव इति भावः । व्यपदेशाच्छलात् । सदृशमिति मकरन्दे स्नेहानुबन्धमपि कथयेत्याशयः । उभयमपि क्रियाविशेषणम् । बुद्धरक्षिता । अत्र शोभनं कथयितुमर्हसीत्यर्थः । लवङ्गिका । अत्र मकरन्दवियोगेन कथं वर्त- स इति भावः । मदयन्तिका । अत्र निशामय शृणु । एकवचनमिह लवङ्गिका- पेक्षया । बुद्धरक्षिताया विदितवृत्तान्तत्वात् । कथाकथनं तु रागवृद्धये यदाह— 'यात्रा पुरस्कन्दनमुत्सवो वा खप्नोऽथ चित्रं रतिसंकथा च । भवन्त्युपायाः प्रथमा- वलोके यूनोर्यतो वृद्धिमुपैति रागः ॥' पक्षपात इति बुद्धरक्षितापक्षपातो गुणबाहुल्यं विना न भवतीति विश्वास इति भावः । भूतोवृत्तमतिरिकीभवत् । कौतूहलमुत्क- ण्ठा च मनोरथश्चेति विग्रहः । ततो बहुव्रीहिः । यद्वा अतिरिकीभवत् कौतूहलमु- त्कण्ठा च यत्र मनोरथे तादृशो मनोरथो यत्र तत्तथा । सर्वाङ्गदाहो व्याध्यवस्था- याम् । यदाह—'मनःसंमोहसर्वाङ्गदाहतृष्यादिभिस्तथा । शिरसो वेदनाभिश्च व्याधिरभिनयो यथा ॥' मरणमेव निर्वाणं मोक्षः। सर्वदुःखापहारकत्वात् । मध्मवा-