मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 338, कुल 377 में से
संदर्भ में पढ़ें९० जगद्धरकृता [ अङ्कः ७ पृ० प० १६९ १ सुदं अह्मेहिं जहा मम ण तुए संपदं कोमारबन्धईए पओअणं ति । मदयन्ति० १ ॰एसो त्ति । अण्णं च तुह्मे० । ११ ॰वालम्भदूसणस्स जं मू० । १७० १ ॰कहं वा आमन्तिदं वि णाम ण जाणीमो । ३ ॰लदीए तारामेत्तं आसी तहिं सव० । ५ ॰त्तुणो अवक्खा० । ६ ॰महादोसो त्ति जा० । ७ ॰हणा अम्मकाओ दुमावेन्ति हिअ० । ८ ॰त्ति मां णं भ- णिस्सध मद० । ९ ॰अइ असावधाणे असं० । १० सह जम्पिस्सं । गेति । ओवग्गिदं पुञ्जीकृतं लम्बितमित्यर्थः । मुखावयवा ललाटादयः । विकासितं चुम्बनादिनियुक्तम् । वदनस्य वैदग्ध्यं चुम्बनचातुर्यात् । इह कन्यायास्त्रिविधं चुम्बनम् । ललितकच्छुरितकघटितकभेदात् । तत्र ललितकमाह—प्रस्फु- रितेति । घटितकमाह—पुञ्जितं योजितम् । ईषत्परिगृह्य मीलितनेत्रा जिह्वाग्रेण घटयति करेण नेत्रे तस्याच्छादयतीति घटितम् । छुरितकं तु प्रागेवो- क्तम् । समुद्भूत उद्रेकः । एवं च सर्वाङ्गीणनायकस्पर्शात्प्रमोदमाह—मनो- हरेति । उद्घर्षितमुद्भूतरोमाञ्चम् । नायिकाया वामाङ्गे सकलोपचारव्यव- स्थापनात्कामकपोलेत्युक्तम् । वर्धमानां सुरतावस्थामाह—समुल्लसितेति । समुल्लसिताभ्यां साध्वसानन्दाभ्यां विषमो यः संभ्रमः संवेगस्तत्र मोहेन किंकर्त- व्यतामूढतया मन्थरत्वमेकतरपक्षाव्यवस्थितिः साध्वसेन प्रवृत्तिरानन्देन च निवृत्तिरित्याशयः । अनभ्यर्थनीयं सुरतादिकम् । ततो झटितीति जागरावस्था- कथनम् । लवङ्गिका । अत्र मच्चूडकं विधायेति ह्यातम् । निःसहतनुत्वेनास- नमच्चूडकेऽपि चातुर्यातिरेकवैदग्ध्यमिति भावः । पुष्पवतीशङ्कया परिजनहासनि- वारणाय गोपनम् । बुद्धरक्षिता । अत्र पृच्छामि यदि हृद्गतं रहस्यं कथयसीति भावः । मदयन्तिका । अत्र कृतापराध इत्यत्र शिरश्चालनगतिः । बुद्धरक्षिता । अत्रात्मसमर्पणमेव त्वया कार्यमिति भावः । मदयन्तिका । अत्र तद्दर्शनामृतसेक- शीतला भविष्यामीति भावः । निःसङ्गः सर्वाङ्गव्यापी । बुद्धरक्षिता । अत्राद्यशब्दो यद्यर्थो बलात्कारितो बलात्कारेण प्रवर्तितः। रुक्मिणी काममाता प्रद्युम्नमातृत्वात्।पक्षे कामावस्थाकारिणीम् । पुरुषोत्तमः कृष्णः अथ च पुरुषेषूत्तमो मकरन्दः।स्वयं ग्राहेण गान्धर्वेण । सधर्मचारिणी भार्या । प्रवृत्तिर्वार्ता । मदयन्तिका । इह मम भाग्येन किं स्यादिति निःश्वास इति भावः । मदयन्तिका । अत्र काह्मात्मशरीरस्य किं तु न क्वापि । मकरन्दस्यैव मच्चरीरमिति भावः । केरकशब्दः कृत्यकरवाची । प-