मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 343, कुल 377 में से
संदर्भ में पढ़ेंअष्टमोऽङ्कः । पृ० पं० १८४ ९ वर्तते हि० । १४ ॰सान्द्रो मकरन्दः परा० । १८६ ३ ॰मित्यथानिमित्तमन्यथैव सं०। ८ ॰यि निरनुरोधे, तदेवं मदयन्तिकामादाय मकरन्दे माधवान्तिकं चलिते मालतीमादाय निर्ग- तस्य माधवस्य कामन्दकीगृहस्थितस्य वार्ताप्रस्तावनायावलोकिताप्रवेशः । सूचनं च पूर्वाङ्के । जहिं जेव्व मालतीति वचनेन मालतीमाधवयोरेकत्रवासः सूचितः। तत्र च यद्यपि तयोरेव प्रवेशोऽर्हति तथापि कन्याप्रलोभने सख्यानुकूल्ये तत्प्रवेश इति पूर्वाङ्के कृतमेव । अवलोकिता । अत्र 'सरो वापी तु दीर्घिका' इत्यमरः । दलयतीत्यादि । अयं चान्द्र उद्योत उद्गच्छन्नत एव शुष्यत्प्रगल्भतालीपत्रव- त्पाण्डुरस्तिमिरसङ्घं खण्डयति । प्रथमतों व्योम्नि वायुवेगेनोर्ध्वमुखीभूय प्रचलितः घनः केतकीपराग इव । इन्दोरयमैन्दवः । मन्दमन्दमिति प्रचलनक्रियाविशेषणम् । उपवर्तये संमुखीकरोमि ॥ १ ॥ निश्चोतन्त इत्यादि । हे सुशरीरे, यावदेते कबरीजलबिन्दवः स्रवन्ति, यावत्कुचकलिकयोर्मध्य आर्द्रता न त्यजति, यावच्च निबिडव्यापि रोमाञ्चं प्रकाशयन्ती काययष्टिस्तावद्गाढं यथा तथा सकृदपि मेऽङ्क- पालिं क्रोडप्रदेशं देहि । अतः प्रसीद । तदिह निदाघतापशान्तये जलबिन्दवः । कुचार्द्रता पुलकोद्गमश्च सर्वाङ्गशैत्यापत्तये । यावत्तावच्छब्दाववध्यर्थौ । सान्द्रेत्यादि- पदे कर्मधारयमत्वर्थीयाद्बहुव्रीहिरेवेष्टो लघुत्वादिति न्यायेन बहुव्रीहिसंभवे कथं मत्वर्थीय इति न देश्यम् । एतद्वचनस्य प्रायिकत्वात् । तथैव नानाप्रयोगदर्शना- दिति दिक् । 'पालिः पङ्क्तिप्रदेशयोः' इति शाश्वतः ॥ २ ॥ जीवयन्नित्यादि । बाहुः कण्ठेऽर्प्यताम् । कीदृशः । समूढं सद्योजातं पुञ्जितं वा यत्साध्वसं भयं तेन स्वेदबिन्दुर्यत्र सः । अननुभूततया भयम् । चान्द्रकरस्पृष्टोऽत एव स्रवन्दी क्षर- न्बालचन्द्रकान्तहारस्तत्तुल्यः । घर्मविघातकत्वात् । अत एव सौहित्याज्जीवयन्निव । 'समूढः पुञ्जिते भुग्ने सद्योजाते सुनिश्चिते' इति विश्वः । ससाध्वसश्रमेति पाठे ससाध्वसो भयवान्यः श्रम इत्यर्थः । संविभागो भेदः । अभाजनमस्थानम् । अ- जहल्लिङ्गोऽयम् । अयं जन इत्यनेन दीनतोद्भावनेनानुकूल्यं स्वीयमाह । भवत्या इत्यनेन नायिकोत्तेजनम् ॥ ३ ॥ दग्धमित्यादि । चिरं दक्षिणवायुचन्द्रकरैस्ता- पितं मे वपुरालिङ्ग्य न चेन्निर्वापितममृतीकृतं तदा समदकोकिलरवपीडितामे श्रुतिः कर्णोऽथेदानीं हृद्यां वाचं पिबतु । सादरं शृणोत्वित्यर्थः । अत एव वाक्याधुर्य- द्योतनाय किंनरकण्ठि इति संबोधनम् । हे किंनरस्येव कण्ठः स्वरो यस्यास्तथाविधे । 'स्वरे कण्ठः प्रकीर्तितः' इति रत्नकोशः । अङ्गकण्ठगात्रेषूपसंख्यानान्ङीष् । पूर्वार्धे तुशब्दो यद्यर्थेः । द्वितीये पुनरथैः । यदि नालिङ्गनं देयं तदा मधुरमालपेति- भावः । नाम संभावनायाम् । आलिङ्गनादानं संभाव्यते । यतः त्वयि वदन्त्यां क-