मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 354, कुल 377 में से
संदर्भ में पढ़ें१०६ जगद्धरकृता [ अङ्कः ९ पृ० प० २०७ १३ ॰तथा व्यतनो॰ । ‘मलिनेर्मल्लिकाक्षाब्जे’ इत्यमरः । ‘मल्लिको हंसभिद्यपि’ इति मेदिनीकारान्मल्लिके- स्याख्या यस्येति ज्ञायते । अनुप्रासश्च नागरागेति समानश्रुत्यापि संभवतीत्यवधे- यम् । सोद्वेगं शीतवातादिदुःसहत्वादिति भावः ॥ १४ ॥ ‘प्रतिवाक्यप्रदानादि- श्रुत्यालोकनवर्जनम् । तूष्णीम्भावो विचेतस्त्वं जडतायां भवन्ति हि ॥’ इति । जड- ताचिह्नं माधवे सचमत्कारमाह—कथमिति । निरूप्यं नेयं जडता किं त्वनु- स्मृतिरित्याह—शून्यमिति । शून्यं निर्लक्ष्यमन्यतो गमनेनानुस्मृतिः । यद्वा अन्यतः शून्यं मालतीव्यतिरिक्तवस्तुज्ञानात् । अत एव प्रद्वेषादन्यकार्याणां कथितानुस्मृतिरिति । अप्रतिपत्तिशून्यमिति पाठेऽनवधानेन चैतन्यविरहो यथा तथोत्थायेत्यर्थः ॥ वानीरेत्यादि । सखे, कुञ्जसंबन्धि नदीनां पयः पश्य । वेतसपुष्पैर्लग्नसौरभम् । तासामेवोपान्तेषु च यूथिकाकुसुमानां जालकैः कोरकै- र्विकासितम् । यद्वा यूथिकाश्च सुमनसश्च तासां जालकैः । यूथिका जूहीति प्रसिद्धा । सुमनसो जात्यः । ‘सुमना मालती जातिः’ इत्यमरः । तथा गिरेः सानूने- कदेशानालम्ब्येह प्राग्भारेषु शिखरेषु वर्तमानेर्मेघैर्वितानाय्यते । वितानाचारः क्रियते । मयूरनृत्यविधाननिमित्तम् । निमित्तसप्तमीयम् । कीदृशेषु । विकसत्कुट- जपुष्परूपहासवत्सु । तदिह मयूरनृत्यार्थं मेघैर्वितानं कुटजैर्हास इति यत्तत्पश्ये- त्यर्थः । एवं च कुटजवृक्षा द्रष्टारो मयूरा नर्तका मेघो वितानमिति नृत्यसामग्री । ध्वनिस्तु शिखण्डिपदेन पद्मचूडोपेतशिरस्कत्वेन विदूषक उक्तः । प्राग्भारपदेन च प्राग्भवतीति प्राक् प्रकृष्टज्ञानवान्भारो दुःसहो यस्य स मूर्खो द्रष्टोक्तः तस्य च हास उचित एव । यद्वा शिखण्डिपदेन त्रिशिखण्डयोगितया बाल उक्तः । तस्य च नृत्यै मूर्खो हसत्येव । ‘बालानांमपि कर्तव्यं त्रिशिखण्डविभूषणम्’ इति बालानां त्रि- खण्डित्वे मानम् । ‘वानीरवञ्जुलाः’ इत्यमरः । ‘क्षारको जालकं क्लीबे कलिका कोरकः पुमान्’ इति च । वितानमाचरतीत्यर्थे क्यङन्ताद्यकि वितानाय्यत इति रूपम् ॥ १५ ॥ विजृम्भेत्यादि । सखे, शैलपर्यन्तभूमयो जृम्भया विकासेन ज- र्जरः पृथग्भूतो यो डिम्बो गोलकस्तस्य डम्बरेणारम्भेण व्याप्ता अत एव श्रीमन्तो नीपवृक्षा यत्र तादृशो भवन्तीति यत्तत्पश्येत्यर्थः । एवं सर्वत्र दिशो मेघमाला- श्यामा भवन्ति । यद्वा कादम्बानां कलहंसानां श्रियः कादम्बिन्यस्ताभिः श्यामाः । नदीप्रवाहाणां कच्छाः कूलानुगुद्भिर्विकसितैः कन्दलैर्नवाङ्कुरैः कान्ता मनोज्ञा ये केतकवृक्षास्तद्वारका भवन्ति । यद्वा उद्यन्कन्दलः कन्दो यस्य कान्तकेतकस्येत्यर्थः । यद्वा उद्यन्त्यः कन्दलो मलीवृक्षस्तं कान्तकेतकं च बिभ्रतीत्यर्थः । वनानां माला- भिर्गन्धानि व्यक्तीभवत्सौरभानि यानि शिलीन्ध्रलोध्रकुसुमानि तैः स्मेरा सहासेव । मनोज्ञा वा । ‘शिलीन्ध्रं कन्दलीपुष्प’मिति विश्वः । शिलीन्ध्रं ‘सूल’ इति ख्यातम् । वनमिह पद्मं जलं विपिनं वा । ‘जृम्भा विकासजृम्भयोः’ इति विश्वः । ‘डिम्बो- ऽण्डेऽपि च गोलके’ इति धरणिः । ‘डम्बरोऽस्त्री समारम्भ’ इति विश्वः । ‘काद-