भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 354, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 354

१०६ जगद्धरकृता [ अङ्कः ९ पृ० प० २०७ १३ ॰तथा व्यतनो॰ । ‘मलिनेर्मल्लिकाक्षाब्जे’ इत्यमरः । ‘मल्लिको हंसभिद्यपि’ इति मेदिनीकारान्मल्लिके- स्याख्या यस्येति ज्ञायते । अनुप्रासश्च नागरागेति समानश्रुत्यापि संभवतीत्यवधे- यम् । सोद्वेगं शीतवातादिदुःसहत्वादिति भावः ॥ १४ ॥ ‘प्रतिवाक्यप्रदानादि- श्रुत्यालोकनवर्जनम् । तूष्णीम्भावो विचेतस्त्वं जडतायां भवन्ति हि ॥’ इति । जड- ताचिह्नं माधवे सचमत्कारमाह—कथमिति । निरूप्यं नेयं जडता किं त्वनु- स्मृतिरित्याह—शून्यमिति । शून्यं निर्लक्ष्यमन्यतो गमनेनानुस्मृतिः । यद्वा अन्यतः शून्यं मालतीव्यतिरिक्तवस्तुज्ञानात् । अत एव प्रद्वेषादन्यकार्याणां कथितानुस्मृतिरिति । अप्रतिपत्तिशून्यमिति पाठेऽनवधानेन चैतन्यविरहो यथा तथोत्थायेत्यर्थः ॥ वानीरेत्यादि । सखे, कुञ्जसंबन्धि नदीनां पयः पश्य । वेतसपुष्पैर्लग्नसौरभम् । तासामेवोपान्तेषु च यूथिकाकुसुमानां जालकैः कोरकै- र्विकासितम् । यद्वा यूथिकाश्च सुमनसश्च तासां जालकैः । यूथिका जूहीति प्रसिद्धा । सुमनसो जात्यः । ‘सुमना मालती जातिः’ इत्यमरः । तथा गिरेः सानूने- कदेशानालम्ब्येह प्राग्भारेषु शिखरेषु वर्तमानेर्मेघैर्वितानाय्यते । वितानाचारः क्रियते । मयूरनृत्यविधाननिमित्तम् । निमित्तसप्तमीयम् । कीदृशेषु । विकसत्कुट- जपुष्परूपहासवत्सु । तदिह मयूरनृत्यार्थं मेघैर्वितानं कुटजैर्हास इति यत्तत्पश्ये- त्यर्थः । एवं च कुटजवृक्षा द्रष्टारो मयूरा नर्तका मेघो वितानमिति नृत्यसामग्री । ध्वनिस्तु शिखण्डिपदेन पद्मचूडोपेतशिरस्कत्वेन विदूषक उक्तः । प्राग्भारपदेन च प्राग्भवतीति प्राक् प्रकृष्टज्ञानवान्भारो दुःसहो यस्य स मूर्खो द्रष्टोक्तः तस्य च हास उचित एव । यद्वा शिखण्डिपदेन त्रिशिखण्डयोगितया बाल उक्तः । तस्य च नृत्यै मूर्खो हसत्येव । ‘बालानांमपि कर्तव्यं त्रिशिखण्डविभूषणम्’ इति बालानां त्रि- खण्डित्वे मानम् । ‘वानीरवञ्जुलाः’ इत्यमरः । ‘क्षारको जालकं क्लीबे कलिका कोरकः पुमान्’ इति च । वितानमाचरतीत्यर्थे क्यङन्ताद्यकि वितानाय्यत इति रूपम् ॥ १५ ॥ विजृम्भेत्यादि । सखे, शैलपर्यन्तभूमयो जृम्भया विकासेन ज- र्जरः पृथग्भूतो यो डिम्बो गोलकस्तस्य डम्बरेणारम्भेण व्याप्ता अत एव श्रीमन्तो नीपवृक्षा यत्र तादृशो भवन्तीति यत्तत्पश्येत्यर्थः । एवं सर्वत्र दिशो मेघमाला- श्यामा भवन्ति । यद्वा कादम्बानां कलहंसानां श्रियः कादम्बिन्यस्ताभिः श्यामाः । नदीप्रवाहाणां कच्छाः कूलानुगुद्भिर्विकसितैः कन्दलैर्नवाङ्कुरैः कान्ता मनोज्ञा ये केतकवृक्षास्तद्वारका भवन्ति । यद्वा उद्यन्कन्दलः कन्दो यस्य कान्तकेतकस्येत्यर्थः । यद्वा उद्यन्त्यः कन्दलो मलीवृक्षस्तं कान्तकेतकं च बिभ्रतीत्यर्थः । वनानां माला- भिर्गन्धानि व्यक्तीभवत्सौरभानि यानि शिलीन्ध्रलोध्रकुसुमानि तैः स्मेरा सहासेव । मनोज्ञा वा । ‘शिलीन्ध्रं कन्दलीपुष्प’मिति विश्वः । शिलीन्ध्रं ‘सूल’ इति ख्यातम् । वनमिह पद्मं जलं विपिनं वा । ‘जृम्भा विकासजृम्भयोः’ इति विश्वः । ‘डिम्बो- ऽण्डेऽपि च गोलके’ इति धरणिः । ‘डम्बरोऽस्त्री समारम्भ’ इति विश्वः । ‘काद-