मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 41, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ३५ मकरन्दः—(स्वगतम् ।) अहो अभिषङ्गः । तत्किं निषेधयामि प्रियसृहृदम् । अथवा । मा मूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् । इत्यादि नन्विह निरर्थकमेव यस्सि- न्कामश्च जृम्भितगुणो नवयौवनं च ॥ ३५ ॥ (प्रकाशम्) वयस्य, अपि विदिते तदन्वयनामनी । स्कन्दनमुत्सवो वा स्वप्नोऽथ चित्रं रतिसंकथा वा । भवन्त्युपायाः प्रथमावलोकने यूनोर्यतो वृद्धिमुपैति रागः ॥' इति । अपहृतः स्वायत्तचित्तः कृतः । सा एत- च्चित्ताकर्षिणी । अपिनामेति संभावनायाम् । माल्येव संभाविता । तस्या एवैतद- भिलाषगोचरतायोग्यलावण्याशालित्वादिति भावः ॥ मकरन्दः—स्वगतमिति । अश्राव्यार्थप्रयोगे स्वगतमिति प्रयुज्यते । तदुक्तम्—'अश्राव्यश्राव्यभेदेन द्विधा वस्तु प्रकीर्तितम् । सर्वत्र नियतस्येति श्राव्यं च द्विविधं स्मृतम् ॥ अश्राव्यं स्व- गतं तत्र प्रयोज्यं स्वगतं त्विति । सर्वश्राव्यं प्रकाशं स्यात्प्रकाशमिति तद्वदेत् ॥ श्राव्यं तु नियतस्यैव नाट्यधर्ममपेक्ष्य च । द्विधा विभज्यते तत्र जनान्तमपवारि- तम् । त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्यात्तज्जना- न्तिकमुच्यते ॥ रहस्यं कथ्यतेऽन्यत्र परावृत्यापवारितम् । वस्तुनिर्वाहकत्वेन नाट्य- धर्मप्रसङ्गतः ॥' इति । अभिषङ्गोऽभिनिवेशः । अपूर्वोऽयमेकपदे चित्तासङ्गप्रकर्ष इत्यद्भुतावेशात्परिभावनं नाम संध्यङ्गमुक्तं भवति । 'परिभावोऽद्भुतावेशः' इति । तत्किमिति । इत्थमिदानीमस्योन्माददशा वर्तते । तेन समनन्तरदशोपनिपाता- त्पूर्वमेव किमेनमसद्भाभिषङ्गात्निवारयामीति स्वात्मन्येव वितर्कः । एवं वितर्क्य निवारणमशक्यमिति निर्धारयति—अथवा । मा मूमुहदिति । अनन्यजन्मा स्वचित्तैकयोनिः कामो भवन्तं मा मूमुहन्न मोहं प्रापयतु । आशिषि ङ् । तव मतिर्मलीमसो मलिनश्चित्तैकाग्र्यप्रत्यनीकत्वान्निन्दितो यो विकारो मन्मथाभिषङ्गस्तेन घना सान्द्रतरा छन्ना मा भूदित्याद्युपदेशजातमित्थैवामवस्थेऽस्मिन्निरर्थकमकार्यका- रित्वात्रिष्फलम् । नन्वित्यात्मन एवावधारणे । नैरर्थक्ये हेतुमाह—यस्मिन्माधवे कामश्च जृम्भिताः संजातजृम्भाः प्रत्यग्रव्यक्तनिद्रा विजृम्भमाणगुणा विरहिजन- प्राणहारिणो व्यापारा यस्य तथाभूतो वर्तते । यौवनं च प्रवृद्धविवेकप्रमोषणा- दिधर्मकं वर्तते । तस्मान्नेदानीमस्य किंचिदप्युपदेष्टव्यमस्ति । पाटच्चरलुष्ठितसर्वस्वं पथिकं प्रति 'चोरभूयिष्ठोऽयं मार्गः, तन्नानेन पथा गन्तव्यम्' इत्युपदेशवद्वृथैव बलवन्मन्मथाकृष्टमानसं प्रति मदनवशगो मा भूरित्युपदेशोऽतीतकालत्वाद्द्यर्थ एव । यदाह—'यो हि ब्रूयाद्भुक्तवन्तं मा भुक्था इति किं तेन कृतं स्यात्' इति ॥ ३५ ॥ एवमात्मन्येव निषेधाशक्यतं निर्धार्य तदभिलषितसंपादनेनैव तदुपद्रवं परिजिहीर्षुरानुकूल्यमवलम्ब्य पृच्छति—प्रकाशमिति । वयस्य, सा तावत्त्वदु-