भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 46, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 46

४० मालतीमाधवे कलहंसः—(उपसृत्य ।) एदं अ । (चित्रं दर्शयति ।) (उभौ पश्यतः ।) मकरन्दः—कलहंसक, केनेदं माधवस्य रूपमभिलिखितम् । कलहंसः—जेणे एव्व से हिअअं अवहरिदं । मकरन्दः—अपि नाम मालत्या । कलहंसः—अह इं । माधवः—वयस्य मकरन्द, प्रसन्नप्रायस्ते तर्कः । मकरन्दः—कुतोऽस्याधिगमस्ते । कलहंसः—मँह दाव मन्दारिआहत्थादो । ताए वि लवङ्गि- आसआसादो । मकरन्दः—कथय किमाह मन्दारिका माधवलेख्यप्रयोजनं मालत्याः । कलहंसः—उक्कँठाविणोअणं ति । मकरन्दः—वयस्य, समाश्वसिहि । या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानति मनोरथबन्धबन्धुः । १. एतच्च । २. येनैवास्य हृदयमपहृतम् । ३. अथ किम् । ४. मम तावन्मन्दारिकाहस्तात् । तया अपि लवङ्गिकासकाशात् । ५. उत्कण्ठाविनोदनमिति । कलहंसः। एतच्च । इदमपि प्रागनुरागचिह्नमिति प्राप्तावसरश्चित्रमर्पयतीत्यर्थः ॥ चित्रलेखनपर्यन्तस्य मालतीव्यापारस्य मकरन्देनापाततोऽधिगमात्केनेति सामा- न्यतो निर्देशः ॥ कलहंसः । पुनर्विमर्शपूर्वकं तेनैव वाचयितुमाह—येनैवास्य हृदयमपहृतमिति ॥ मकरन्दः । अपि नामेति प्रश्ने । लिखितमिति शेषः ॥ कल- हंसः। अथ किमित्यङ्गीकारे । बाढं मालत्यैवेत्यर्थः ॥ माधवः । वयस्येति । प्रसन्नप्रायः संदेहलक्षणकालुष्यापगमान्निर्मलीभूतस्तर्कस्त्वय्येव सानुरक्तेत्यूहः । अत्र चित्रदर्शनात्तस्मिन्मालत्यनुरागनिश्चयेन सुखागमप्रतीतेः प्राप्तिर्नाम संध्यङ्ग- मुक्तं भवति । यथा—'प्राप्तिः कोऽपि सुखागमः' इति ॥ मकरन्दः । कलहं- सक, कस्मादेतत्त्वया प्राप्तमित्यर्थः ॥ कलहंसः । मम तावन्मन्दारिकाहस्तात् । तया अपि लवङ्गिकासकाशात् ॥ कलहंसः । उत्कण्ठाविनोदनमिति ॥ या कौमुदीति । या त्वन्नेत्रचकोरयोश्चन्द्रिकेव निरतिशयसौहित्यकारिणी तस्याः सु-