मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
DevanagariHindipublished377 पृष्ठ
पृष्ठ 53, कुल 377 में से
संदर्भ में पढ़ेंपृष्ठ 53
प्रथमोऽङ्कः । ४७ प्रसरति परिमाथी कोऽप्ययं देहदाह- स्तिरयति करणानां ग्राहकत्वं प्रमोहः । रणरणकविवृद्धिं बिभ्रदावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते ॥ ४४ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे प्रथमोऽङ्कः । मिति ॥ ४३ ॥ एवं स्वात्मनि विमृष्टमेवार्थं वयस्याय मकरन्दाय निवेदयन्नाह— प्रसरतीति । कोऽप्यनिर्व्वाच्यः केनाप्यविदितनिदानः परिमाथी परिमथनशीलः सद्य एव विपत्तिशङ्काकार्यं देहदाहो मदनज्वरः प्रसरति सर्वावयवव्याप्तो व- र्त्तते । ज्वराख्यस्य दशाविशेषस्य लक्षणमुक्तम् । प्रमोहः । 'सुखदुःखादिजनितो मोहश्चित्तस्य मूढता' इत्युक्तरूपः करणानामिन्द्रियाणां ग्राहकत्वं स्वस्वविषयग्र-