भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 57, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 57

द्वितीयोऽङ्कः । ५१ मालती—सँहि, तदो तदो । लवङ्गिका—तँदो तेण महाणुहावेण उवणीदा इमं वउल- माला (इत्यर्पयति ।) मालती—(मालां गृहीत्वा सहर्षं निर्वर्ण्य ।) सँहि, एक्कपासविसम- पडिबद्धा इअं विरअणा । लवङ्गिका—एँत्थ अरमणिज्जत्तणे तुमं एवं अवरद्धासि । मालती—कँहं विअ । लवङ्गिका—जेँण सो दुब्बासामलङ्गो तह विहत्थीकिदो । मालती—सँहे लवङ्गिए, सबहा आसासणसीलासि । लवङ्गिका—सँहि, एत्थ का आसासणसीलदा । णं भणामि । १. सखि ततस्ततः । २. ततस्तेन महानुभावेनोपनीतेयं बकुलमाला । ३. सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना । ४. अत्रारमणीयत्वे त्वमेवापराद्धासि । ५. कथमिव । ६. येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । ७. सखि लवङ्गिके, सर्वथाश्वासनशीलासि । ८. सखि, अत्र काश्वासनशीलता । ननु भणामि सोऽपि प्रिय- 'मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा' इत्युक्तलक्षणात् इत्यलं प्रपञ्चेन ॥ मा- लती । सखि, ततस्ततः । मदनोद्याने ऽविलम्बं माधवसमीपगमनं चतुरवचनै- र्बकुलदामप्रार्थनं चेत्येतावदुक्तवतीं लवङ्गिकां प्रत्युपरितनवृत्तान्तश्रवणकौतुको- त्कर्षात्ससंभ्रमप्रश्नः । आदरसूचनार्था वीप्सा । अनन्तरवृत्तान्तं कथयेति शेषः ॥ लवङ्गिका । ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ॥ मालती । निर्वर्ण्य सादरं विलोक्य । सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना ॥ लवङ्गिका । अत्रारमणीयत्वे त्वमेवापराद्धासि । मालती । कथमिव । माधवकर्तृकायाः स्रग्वि- रचनाया एकपार्श्ववैषम्ये कथमहं निमित्तं भवामीत्यर्थः । लवङ्गिका । येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । वस्तुतो ग्रथनक्रियाया विकलहस्तः कृतः । त्वमेव स्वसौन्दर्यसंपदा गम्भीरमपि तन्मनः समाकर्षन्ती प्रस्तुतक्रियाविकलहस्तं कृतवती । तत इदं विरचनावैषम्यं जातमिति भावः ॥ मालती । सखि लव- ङ्गिके, सर्वथाश्वासनशीलासि । मत्समाश्रासनाय केवलमिदं त्वयोच्यते । तस्य मय्यनुरागोऽसंभावित इति भावः ॥ लवङ्गिका । सखि, कात्राश्वासनशी- ६ मालतीमा०