मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 62, कुल 377 में से
संदर्भ में पढ़ें५६ मालतीमाधवे मनोरोगस्तीव्रो विषमिव विसर्पन्नविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ १ ॥ लवङ्गिका—ऐव्वं एदं । पच्चक्खसोक्खदाइणो परोक्खदुक्ख- दूसहा सज्जणसमाअमा होन्ति । अवि अ पिअसहि, जस्स वादा- अणन्तरमुहुत्तदंसणेण वि सुसमिद्धहुदवहाअन्तपुण्णचन्दोदया णिक्- करुणाम्वावारसंसइदजीविदा दे सरीरावत्था, तस्स एव्व संपदं सविसेसदंसणादो अज्ज संतप्पसि त्ति किं एत्थ भणिदव्वम् । ता १. एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःखदुःसहाः सज्जनस- मागमा भवन्ति । अपि च प्रियसखि, यस्य वातायानन्तरमुहूर्तदर्शनेनापि सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते शरीरावस्था, तस्यैव सांप्रतं सविशेषदर्शनादद्य संतप्यस इति किमत्र भणि- चान्यमहिषीणाम् । संस्कृतमपि योग्यं स्यात्प्रस्तावेनागतं किंचित् ॥' इति ॥ माल- त्याश्चान्तःपुरिकात्वान्तःपातः । अत एव भर्तृदारिकाव्यवहारोऽपि । मनोरोग इति । विषमिवाविरतमनवरतं विसर्पन्सर्वधातुषु व्याप्नुवन् । प्रमाथी तीव्रः सद्यो विपत्तिकृत् । अयं मान्मथो मनोरोगो मन्मथव्यथालक्षणो व्याधिः । निर्धूमं धू- मरहितं यथा विधुतः संधुक्षितः पावक इव ज्वलति । तथा गरीयान्संनिपातिको ज्वर इव प्रत्यङ्गं सर्वेष्वप्यवयवेष्वित इतोऽन्तर्बहिश्च हिनस्ति पीडयति । ततो मां दुस्तरादसाध्यसन्त्रातुं तातोऽपत्यस्नेहपरवशोऽपि तावन्नरपतिमनोरञ्जनप्रवण- त्वात्र प्रभवति । पुमपत्येष्वाधिकत्वाद्रात्सल्यस्य पितुः कन्यकाजने माता निरति- शयप्रेमनिग्नहृदया यद्यपि भवति तथाप्यम्बा भर्तृपराधीना न मां रक्षितुं समर्था । जनन्यपेक्षयापि सहपांसुक्रीडनादिभिः समदुःखसुखाः स्वमनोनिर्विशेषाः सख्य- स्थापि भवती मद्विषयेऽस्वतन्त्रत्वात्र रक्षणक्षमा । किं तु यदि रक्षणे समर्थः स्यात्स एवैकोऽमृतसंजीवनौषधिरिव माधवः । स च मम दुर्लभ एवेति मरणमे- वेदानीं शरणम्, नान्यत्किंचिदित्यर्थः । विषज्वलनज्वराख्योपमानत्रयोपादानं नैके- नायमुपमातुं शक्यत इत्यतिशयसूचनार्थम् । संज्वरोन्मादौ चानेनोक्तौ । तल्लक्षणं प्रागेवोक्तम् ॥ १ ॥ लवङ्गिका । एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःख- दुःसहाः सज्जनसमागमा भवन्ति । नेदमाश्चर्यं यदत्र संतापः । कुत इत्यत्र हेतु- माह—अपि चेति । प्रियसखीति । यस्य वातायानन्तरमुहूर्तदर्शनेनापि सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते श- रीरावस्था । भवतीति शेषः । तस्यैव सांप्रतं सविशेषदर्शनेनाद्य संतप्यस इति किमत्र भणितव्यम् । तदत्र प्रियसखि, श्लाघनीयं दुर्लभविषये यो मनोरथस्तस्य