भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 93, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 93

कुसलावसाणदा मम्महस्स । कहं अ इमाई रमणकेलिकलहकोबरा- अपल्लविदकेरलीकपोलकोमलुद्वेलविमलचन्दिरुद्दामदलिततिमिराव- रणाई विभावरीमुहाईं । इमे अ उल्लसिददुद्धधारापूरधवलुज्ज्वलन्तजो- ण्हापक्खालिअनहोअणा परिमलिअपाडलीमुउलणिम्महणबहुलपरिम- लुप्पीदसंकलणमसिणमंसलमलअमारुदुद्धूमायिददसदिआमुहा अनत्थ- आरिणो होन्ति रअणीपरिणामा अ पिअसहीए । कामन्दकी— यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं गुणज्ञतायाः । इति नन्दितमप्यवस्थमस्या हृदयं दारुणया विदीर्यते मे ॥ १३ ॥ थस्य । कथं चेमानि रमणकेलिकलहोपरागपल्लवितकेरलीकपोलकोमलोद्वे- लविमलचन्द्रिकोद्दामदलिततिमिरावरणानि विभावरीमुखानि । इमे चोल्लसित- दुग्धधारापूरधवलोज्ज्वलज्योत्स्नाप्रक्षालितनभोङ्कणाः परिमलितपाटलीमुकुलनि- मंथनबहुलपरिमलोत्पीडसंकलनमसृणमांसलमलयमारुतोद्धूमायितदशदिङ्मुखा अनर्थकारिणो भवन्ति रजनीपरिणामाश्च प्रियसख्याः । यतः कालस्य कुशलावसानता क्षेमपर्यवसायित्वम् । भविष्यतीति शेषः । इदानीं मालत्यङ्गेषु दारुणकर्मणः स्मरस्येतः परं कदा वा प्रियतमसंघटनेन कुशल- कारित्वं भविष्यतीत्यर्थः । कथं चेमानि रमणेन सह यः केलिकलहः कोपस्ते- नोपनीतो यो रागः कोपरागस्तेन पल्लवितौ संजातपल्लवौ यौ केरलीकपोलौ तद्वत्कोमला उद्वेला विमला च या चन्द्रिका तयोद्दामं प्रगल्भं दलितानि तिमि- रावरणानि येषु तानि विभावरीमुखानि । इमे चोल्लसितदुग्धधारापूरधवलोज्ज्व- लज्योत्स्नाप्रक्षालितनभोङ्कणाः । परिमलितं संजातपरिमलं यत्पाटलीमुकुलं तस्य यन्निर्मथनं तेन यो बहुलपरिमलस्योत्पीड उद्गारस्तेन यत्संकलनं मिश्रीभावस्तेन मसृणः स्निग्धो मांसलः पुष्टो यो मलयमारुतस्तेनोद्धूमायिता दशदिङ्मुखा अनर्थ- कारिणो भवन्ति रजनीपरिणामाः प्रियसख्याः । ईदृशानि रजनीमुखानि ईदृ- शाश्च रजनीपरिणामाः प्रियसख्याः । कथं केन वा प्रकारेणानर्थकारिणो भवन्ती- त्येतदपि भगवती पश्यत्विति संबन्धः । 'न भवन्ति' इति पाठे कथमनर्थकारिणो न भवन्ति । भवन्त्येवेत्यर्थः । रजनीमुखपरिणामयोरनर्थहेतुत्वेनैव कृत्स्नस्य रात्रिंदि- वस्य तादृशत्वं दर्शितम् ॥ कामन्दकी—यदीति । यद्ययमनुरागबन्धो गाढा- नुरागस्तद्विषयो माधवालम्बनस्तर्हि स्फुटं व्यक्तमेतदेव । हिशब्द एवकारार्थे । गुणज्ञतायाः फलमित्येवमनेनानुरागस्थैर्येणानन्दितं प्रारब्धकार्यानुकूल्येन जाता- ९ माल०