मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 10, कुल 111 में से
संदर्भ में पढ़ें(प्रविश्य ) गणदासः—कामं खलु सर्वस्यापि कुलविद्या बहुमता । न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम् । तथा हि । देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥
संगीतशालातो निर्गच्छति । यावदस्या आत्मानं दर्शयामि ॥ देवानामित्यादि । मुनयो भरतमतङ्गादय इदं नाट्यं देवानामिन्द्रादीनां क्रतुं यज्ञमामनन्ति । कीदृशम् । शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुस्तु- ष्ट्याव्यम् । अस्य नाट्यस्य क्रतुत्वनिरूपणं चतुर्वेदसारनाट्यवेदविहितकर्मत्वादिति मन्तव्यम्। तथा च कुमारसंभवे—'कर्म यज्ञः फलं स्वर्गः' इति। अत्र चतुर्वेदसारत्वं भारतीये प्रतिपादितम्—'सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रदर्शकम् । नाट्यसंज्ञमिमं वेदं सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत- श्चक्रे चतुर्वेदाङ्गसंभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभि- नयान्रसानाथर्वणादपि ॥ वेदोपवेदसंबद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा ललितात्मना ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ॥' इति । प्रकारा- न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम्—'प्रयोगं यश्च कुर्वीत प्रेक्षते चावधानवान् । या गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्।या गतिर्दानशीलानां तां गतिं प्राप्नुयान्नरः॥' इति । पुनः कीदृशमिदं नाट्यम् । रुद्रेणेश्वरेणोमाकृतव्यतिकरे उमया पार्वत्या कृतो व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्स्वाङ्गे आत्मदेहे द्विधा द्विप्रकारेण लास्य- ताण्डवरूपेण विभक्तं पृथक्कृतम् । तथा चोक्तं संगीतविद्याविनोदे—'उद्दण्डताण्डव- मुदञ्चितलास्यलीलां कर्तुं स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्प्रतरा- र्धकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाट्य त्रैगुण्योद्भवम् । त्रयो गुणाः सत्त्वरजस्तमांस्येव त्रैगुण्यम् । चतुर्वर्णादित्वात्स्वार्थे ष्यञ् । तस्मादुद्भवमुद्भूतं लोकचरितं लोकानां लोकस्थानां रामाद्यनुकार्याणां चरितं सुखदुःखमिश्रात्मकं चरितं नानारसं नाना बहुविधा रसाः प्रियतमोपभोग्या यस्मिंस्तत्तथोक्तं दृश्यते ज्ञायते । सामाजिकैरनुभूयत इत्यर्थः। लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं नटेनाभिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः। पुनः कीदृशम् । नाट्यं नटनप्र- योगः । एकमप्येकैकमपि भिन्नरुचेर्भिन्ना बहुविधा रुच्यः प्रीतयो यस्य स तथोक्त-