मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 108, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । १०५ देवी—(सस्मितम् १) किं' अवधीरेदि अज्जउत्तो । विदूषकः—भोदि, एसो लोअववहारो । सब्वो णववरो ल- ज्जादुरो होदि । (राजा विदूषकमपेक्षते ।) विदूषकः—अह देवीए एव्व किदप्पणअविसेसं दिण्णदेवीसद्दं मालविअं अत्तभवं पडिग्गहीदुं इच्छदि । देवी—ऐदाए राजदारिआए अहिजणेण एव्व दिण्णो देवी- सद्दो । किं पुणरुत्तेण । परिव्राजिका—मा मैवम् । अप्याकरसमुत्पन्नो रत्नजातिपुरस्कृतः । जातरूपेण कल्याणि स हि संयोगमर्हति ॥ १८ ॥ देवी—(स्मृत्वा १) मरिसेदु भअवदी । अब्भुदअकहाए उइदं ण- लक्खिदं । जअसेणे, गच्छ दाव । कोसेअपत्तोण्णजुअलं उवणेहि । १ किमवधीरयत्यार्यपुत्रः । २. भवति, एष लोकव्यवहारः । सर्वो नववरो लज्जातुरो भवति । ३. अथ देव्यैव कृतप्रणयविशेषां दत्तदेवीशब्दां मालविकामत्रभवा- न्प्रतिग्रहीतुमिच्छति । ४. एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः किं पुन- रुक्तेन । ५. मर्षयतु भगवती । अभ्युदयकथयोचितं न लक्षितम् । जयसेने, गच्छ तावत् । कौशेयपत्रोर्णयुगलमुपनय । सादो नाम संध्यङ्गमुक्तं भवति ॥किमवधीरयत्यार्यपुत्रः ॥ भवति, एष लोकव्यव- हारः । सर्वो नववरो लज्जातुरो भवति ॥ अथ देव्यैव कृतप्रणयविशेषां दत्तदेवी- शब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ॥ एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः । किं पुनरुक्तेन ॥ अप्याकरेत्यादि । स्पष्टार्थः । अत्र लब्धा- र्थस्य स्थिरीकरणात्कृतिर्नाम संध्यङ्गमुक्तं भवति ॥ मर्षयतु भगवती ॥ अभ्युदय- कथयोचितं न लक्षितम् । जयसेने, गच्छ तावत् कौशेयपत्रोर्णयुगलमुपनय ॥यद्दे-