मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 110, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । १०७ रादिक्कमेण तदा सव्विणो अवरद्धा, तं सव्वं एव भत्तुणो आणुऊलं णाम मए आअरिदं । संपदं पुण्णमणोरहेण भत्तुणा पसादमेत्तेण संभावाइदव्वत्ति । देवी—णिउणिए, अवस्सं से सेविदं अज्जउत्तो जाणिस्सदि । निपुणिका—अनुगहीदम्हि । परिव्राजिका—देव, अमुना युक्तसंबन्धेन चरितार्थं माधवसेनं सभाजयितुं गच्छामः । देवी—भअवदीए ण जुत्तं अम्हे परिच्चइदुं । राजा—भगवति, मदीयेष्वेव लेखेषु तत्रभवतस्त्वामुद्दिश्य स- भाजनाक्षराणि पातयिष्यामः । परिव्राजिका—युवयोः स्नेहात्परवानयं जनः । देवी—अज्जउत्त, किं ते भूओ पिअं उवहरामि । राजा— त्वं मे प्रसादसुमुखी भव देवि नित्य- मेतावदेव हृदये प्रतिपालनीयम् । १. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति । २. अनुगृहीतास्मि । ३. भगवत्या न युक्तमस्मान्परित्यक्तुम् । ४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि । पण तदा सर्वे अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम ममाचरितम्। सांप्रतं पूर्ण- मनोरथेन भर्त्रा प्रसादमात्रेण संभावयितव्येति॥ निपुणिके, अवश्यमस्याः सेवितमा- र्यपुत्रो ज्ञास्यति ॥ अनुगृहीतास्मि ॥ भगवत्या न युक्तमस्मान्परित्यक्तुम् ॥ आर्यपुत्र, किं ते भूयः प्रियमुपहरामि ॥ त्वं मे प्रसादेत्यादि । हे देवि, त्वं मे मम नित्यं सर्वदा प्रसादसुमुखी प्रसादेन प्रसन्नतया शोभनं मुखं यस्यास्तथोक्ता भव भूयाः । एतावदेवेदमेव हृदये मनसि प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा-