मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 21, कुल 111 में से
संदर्भ में पढ़ें१८ मालविकाग्निमित्रे देवी- १णं कलहप्पिओसि । विदूषकः- २मा एवं । अण्णोण्णकलहप्पिआणं मत्तहत्थीं एक्कदरस्सि अणिज्जिदे कुदो उवसमो । राजा-ननु स्वाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती । परिव्राजिका-अथ किम् । राजा-तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् । परिव्राजिका-तदेव वक्तुकामास्मि । श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता । यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥ विदूषकः- ३सुदं अज्जेहिं भअवदीए वअणं । एसो पिण्डितत्थे उवदेसदंसणादो णिण्णओत्ति । हरदत्तः-परमभिमतं नः । गणदासः-देवि, एवं स्थितम् । १. ननु कलहप्रियोऽसि । २. मैवम् । अन्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत- उपशमः । ३. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शना- न्निर्णय इति । पश्याम उरअसंवादम् । किं मुधा वेतनदानेन ॥ ननु कलहप्रियोऽसि ॥ मैवम् । अ- न्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः॥श्लिष्टेत्यादि कस्यचित्कस्यापि पुरुषस्यापि क्रिया शिक्षा । विद्याभ्यास इत्यर्थः । आत्मसंस्था आ- त्मनिष्ठा सती श्लिष्टा संगता । रम्या भवतीत्यर्थः । अन्यस्य पुरुषस्य संक्रान्तिःशिष्येषु क्रियासंक्रमणम् । संक्रान्तिशब्दोऽत्रान्तर्भावितण्यर्थः । विशेषयुक्तातिशयवती । यस्य पुरुषस्योभयम्,आत्मसिद्धिःपरसंक्रमणं च, साधु रम्यं स पुरुष एव शिक्षकाणामुपदे- शकानां धुर्यग्रे प्रतिष्ठां प्रापयितव्य । श्रुतमार्याभ्यां एष पिण्डितार्थ इति अत्र माठ