मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 49, कुल 111 में से
संदर्भ में पढ़ें४६ मालविकाग्निमित्रे बकुलावलिका—किं विआरेसि। ऊसुआ खु इमस्स तवणी- आसोअस्स मुउलुग्गमे देवी। राजा—कथमशोकदोहदनिमित्तोऽयमारम्भः। विदूषकः—किंणु खु जाणासि तुमं। मह कालणादो देवी इमं अन्तेउरणेवच्छेण जोअइस्सदिति। मालविका—हँला, मरिसेहि दाव णं (इति पादमुपहरति।) बकुलावलिका—अँह, सरीरं सि मे। (इति नाटयेन चरणसं- स्कारमारभते।) राजा— चरणान्तनिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम्। प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥ विदूषकः—चेलणाणुरूवो तत्तहोदीए अहिआरो उवक्खित्तो। राजा—सम्यगाह भवान्। १. किं विचारयसि। उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलो- द्गमे देवी। २. किंनु खलु जानासि त्वम्। मम कारणाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति। ३. सखि, मर्षय तावदेनम्। ४. अयि, शरीरमसि मे। ५. चरणानुरूपस्तत्रभवत्या अधिकार उपक्षिप्तः। अथवैदानीमेतदेव मृत्युमण्डनं मे भविष्यति॥ किं विचारयसि। उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलोद्गमे देवी॥ किंनु खलु जानासि त्वम्। मम कार- णाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति॥ सखि, मर्षय तावदेनम्॥ अयि, शरीरमसि मे॥ चरणान्तेत्यादि स्पष्टोऽर्थ च