भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 61, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 61

५८ इरावती—^१बउलावलिए, तुए साहु उवक्कन्तं। दाणिं सफलब्भ- त्थणं करेहि उज्जउत्तं। उभे—^२पसीददु भट्टिणी। काओ अह्मे भत्तुणो पणअपरिग्ग- हस्स। (इति निष्क्रान्ते।) इरावती—^३अविस्सणीआ पुरिसा। अत्तणो वञ्चणवअणं पमाणीकरिअ अक्खित्ताए बाहजणगीदगहीदचित्ताए विअ हरिणीए एदं ण विण्णादं। विदूषकः—(जनान्तिकम्।) ^४पडिओएहि दाणिं किंपि। कम्म- ग्गहीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओम्हित्ति वत्तव्वं होदि। राजा—सुन्दरि, न मे मालविकया कश्चिदर्थः। मया त्वं चि- रयसीति यथाकथंचिदात्मा विनोदितः। इरावती—^५विस्संसणीओसि। मएं ण विण्णादं ईरिसं विनोदव- १. बकुलावलिके, त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कु- र्वार्यपुत्रम्। २. प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य। ३. अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चनावचनं प्रमाणीकृत्या- क्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम्। ४. प्रतियोजयेदानीं किमपि। कर्मगृहीतेनापि कुम्भीलकेन संधिच्छेदे शिक्षितोऽस्मीति वक्तव्यं भवति। ५. विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोप- लब्धमिति। अन्यथा दुःखभागिन्यैवं न क्रियते। त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कुर्वार्थपुत्रम्॥ प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य॥ अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चना- वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्येवैतन्न विज्ञा- तम्। एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि। संधेः कृत्रिमभूसंघेश्छेदे भेदने। सुरङ्गाकरण इत्यर्थः। शिक्षितः अभ्यसितोऽस्मीति वक्तव्यं भवति। किमपि प्रतियोजय। उपपन्नमनुपपन्नं वा उत्तरं कुर्वित्यर्थः। विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति।