मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 67, कुल 111 में से
संदर्भ में पढ़ें६४ मालविकाग्निमित्रे राजा—अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय । विदूषकः—किं¹ अदो वरं । मालविआ बउलावलिआ अणि- अलपदीओ अदिट्ठसुज्जपादं पादालवासं णाअकण्णआओ विअ अणुहोन्ति । राजा—कष्टं कष्टम् । मधुरस्वरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ । कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ २ ॥ अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् । विदूषकः—कंहं² भविस्सदि । जं सारभाण्डघरए बाउदा माह- विआ देवीए संदिट्ठा । मह अङ्गुलीअअमुद्दं अदेखिअ ण मोत्तव्वा, मालविआ बउलावलिआ अ त्ति । राजा—(निःश्वस्य । सपरामर्शम् ।) सखे, किमत्र कर्तव्यम् । विदूषकः—(विचिन्त्य ।) अत्थि³ एत्थ उवाओ । राजा—क इव । विदूषकः—(सदृष्टिक्षेपम् । ) को⁴ वि अदिट्ठो सुणोदि । कण्णे दे कहेमि । (इत्युपश्लिष्य कर्णे ।) एवं विअ । (इत्यावेदयति ।) १. किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू- र्यपादं पातालवासं नागकन्यके इवानुभवतः । २. कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सं- दिष्टा । ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति- ३. अस्त्यत्रोपायः । ४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । ज्ञातवतीत्यर्थः ॥ किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू- र्यपादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । स्पष्टोऽर्थः । कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या संदिष्टा । ममाङ्गुलीय- कमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति ॥ अस्त्यत्रोपायः ॥ को- ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । अत्र राज्ञः कर्णे विदूषकोक्त उपायो