भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 155, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 155

शरीरवादः 113

ते सूक्ष्मदेहाः नियताः लिङ्गाख्याः प्रथमा इमे । षाट्कौशिकाः स्थूलदेहाः ये मातापितृसंभवाः ॥ निवर्तन्ते प्रजायन्ते प्रभूताः स्थावरा मताः । घटादीनां निवेशोऽत्रेत्येवं त्रैविध्यमीरितम् ॥ इति सांख्योक्तसिद्धान्तं प्राय इच्छन्ति सूरयः । नैयायिकादयो नोपयन्तीदं तत्त्वविप्लवात् ॥ विभ्वात्मवादे गत्युक्तिस्सर्वत्रैवौपचारिकी । जन्मान्तरोपपत्तिश्च स्थितस्यैव भविष्यति ॥ कुमारिलश्चात्मवादे मीमांसाश्लोकवार्तिके । अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥ तदस्तित्वे प्रमाणं हि न किञ्चिदिति पद्यतः । विन्ध्यवासिमतं प्राह सांख्यस्स्याद्विन्ध्यवास्यसौ ॥ 6 तथौपनिषदैः कैश्चिल्लिङ्गदेहो मतो यथा । पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् ॥ अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् । परं चाप्यपरं चेति द्विधा तत्परिकीर्तितम् ॥ परं हिरण्यगर्भीयं तन्महत्तत्त्वशब्दितम् । अपरं त्वस्मदादीनां सोऽहंकार इतीर्यते ॥ पञ्चीकृतेभ्यो भूतेभ्यश्चान्येषां सृष्टिरिष्यते । लिङ्गं मतं भेदविदां भेदाभेदविदामपि ॥

M.R. 15

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 155, कुल 672 में से · BharatKosha