मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 159, कुल 672 में से
संदर्भ में पढ़ेंइन्द्रियवादः 117 द्रव्यमाने पुनर्द्वाभ्यां रूपादावेकशः स्थितिः । मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः । स मानसीनो जनानामात्माऽप्येतैर्गुणैस्सह । अतीन्द्रियाणीन्द्रियाणि सिद्ध्यन्ति ह्यनुमानतः ॥ प्रतिदेहं विभिन्नानि षडेतान्यखिलात्मनाम् । शरीरावयवा एव स्युः कर्मेन्द्रियशब्दिताः ॥ शब्देतरोद्भूतगुणविशेषानाश्रयश्च सन् । ज्ञानहेतुमनोयोगस्याश्रयो हीन्द्रियाभिधः ॥ सर्वाणि प्राप्यकारीणि कारकाणि यतो धियाम् । संसृष्टं कारकं लोके तत्फलायावकल्पते ॥ सन्निकर्षस्ततस्सिद्धः सत्तयैवोपकार्यसौ । नानवस्थातिप्रसंगौ स्वभावनियतं जगत् ॥ नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् । वस्तुस्वभाववैचित्र्यात् इत्येतत्सर्वसम्मतम् ॥ लौकिकोऽलौकिकश्चेति सन्निकर्षो द्विधेष्यते । प्रथमः षड्विधस्तत्र द्वितीयस्त्रिविधो मतः ॥ पृथ्वग्रं चाक्षुषं तेजोऽधिकग्रहणशक्तिमत् । शालिकाचार्यसिद्धान्ते चक्षुर्बाह्येन तेजसा ॥ महच्चक्षुर्जनयति गृह्यते तेन चाधिकम् । तथा शाखाचन्द्रमसोर्यौगपद्येन च ग्रहः ॥