मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 162, कुल 672 में से
संदर्भ में पढ़ें20 मानमेयरहस्यश्लोकवार्तिके उद्विग्नो ह्यन्धकारेण क्वचिदेवं ब्रवीत्यपि । किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया ॥ अतीन्द्रियस्येन्द्रियस्यासिद्धिसिद्धिविकल्पतः । पक्षाप्रसिद्ध्यादिदोषात् विजृम्भन्ते न युक्तयः ॥ शुद्धाहंकृत्युपादानं द्रव्यमिन्द्रियमुच्यते । भूतैराप्यायनं तेषां मनोऽन्नमयताश्रुतेः ॥ इन्द्रियाणां भौतिकत्वं केचिद्वेदान्तिनो विदुः । पञ्चभूतमयत्वं च मनसः प्रतिपेदिरे ॥ शाब्दापरोक्षसिद्धान्ते मनो नेन्द्रियमिष्यते । कैश्चिदात्माऽपरोक्ष्यार्थं मनः करणमुच्यते ॥ 9 एकं मनोऽन्तःकरणं नैयायिकमते मतम् । द्विविधं भास्कराः प्राहुः त्रिविधं कापिला विदुः । चतुर्विधं केचिदाहुः तदुक्तिरवधार्यताम् । मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् ॥ संशयो निश्चयो गर्वः स्मरणं विषया इति । तत्र कापिलभिन्नास्तु वृत्तिभेदाद्भिदां विदुः ॥ मनः स्मृत्यनुभूतिभ्यां द्विधा भास्करभाषितम् । श्रुतिश्च विविधा मानं सर्वेषामिह विद्यते ॥ तदर्थनिर्णायकं च सूत्रं तात्पर्यभेदतः । व्याख्यायते यदि तदा कः पक्षः श्रुतिसम्मतः