मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 256, कुल 672 में से
संदर्भ में पढ़ें214 मानमेयरहस्यश्लोकवार्त्तिके चतुष्पात्सकलो धर्मः भविष्यत्यत्र वै सुराः । ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥ प्रोक्षिता यत्र पशवः वधं प्राप्स्यन्ति वै मखे । यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥ यत्र देवाश्च यज्ञाश्च तपस्सत्यं दमस्तथा । अहिंसाधर्मसंयुक्ताः प्रचरेयुस्सुरोत्तमाः ॥ स वो देशस्सेवितव्यः मा वो धर्मः पदा स्पृशेत् इत्याह भगवान् साक्षाद्देवान्प्रति हरिः स्वयम् ॥ 8 अतीते तु महाकल्पे जातो विद्वान् बृहस्पतिः । तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ॥ स राजा भावितः पूर्वं दैवेन विधिना वसुः । पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ तस्य यज्ञो महानासीत् अश्वमेधो महात्मनः । बृहस्पतिरुपाध्यायः तत्र होता बभूव ह ॥ प्रजापतिसुताश्चात्र सदस्याश्चाभवन् त्रयः । एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ संभृतास्सर्वसंभाराः तस्मिन् राजन् महाक्रतौ । न तत्र पशुघातोऽभूत् राजैवावस्थितोऽभवत् ॥ अहिंस्रश्शुचिरक्षुद्रः निराशीः सर्वसंस्तुतः । आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥