मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 258, कुल 672 में से
संदर्भ में पढ़ें216 मानमेयरहस्यश्लोकवार्तिके पुराणपुरुषैर्व्यासपराशरमुखैर्बुधैः । परिष्कृतो वेदमार्ग इति युक्त्या प्रचक्षते ॥ तदिष्टमपिचास्माकं अनादित्वेन जानताम् । व्यवहारं प्रपञ्चस्य चक्रवत्परिवर्तितम् ॥ अनादितोऽप्यहिंसायाः धर्मत्वे परिनिष्ठिते । बुद्धेनापि हि तत्साक्षात्कर्तुं शक्येत नान्यथा ॥ तस्मादहिंसाधर्मत्वं देशकालानुपस्कृतम् । आविर्भावतिरोभावौ देशे काले भविष्यतः ॥ सनातनस्स एवासौ धर्म इत्याहुरादिमाः । मन्वाद्याः परमोदाराः तस्मात्सर्वं समञ्जसम् ॥ (48) अदृष्टसामर्थ्यम्. 1 अथात्रावसरात्कर्मसामर्थ्ये किंचिदुच्यते । कर्मप्राधान्यवाङ्मात्रान्मूढाः पौरुषशालिनः ॥ अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति । कर्मी कर्मापि कृत्वाऽन्यो न प्राश्यमधिगच्छति ॥ अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेववा ॥ कर्मादिनिरपेक्षं च कारणं परमेश्वरः । सर्वेषामिति सिद्धान्तमाहुः पाशुपताः परे ॥