भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 3, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 3

श्रीरस्तु अवतरणिका. ───── आर्या महाशयाः इदानीमिदमत्रावधारयितुमर्हन्ति तत्रभवन्तः भवन्तः, य एष मानमेयरहस्यश्लोकवार्तिकनाम्ना संगृहीतः प्रकाशितश्च प्रबन्धः सोऽसौ नानतिचिरेण प्रयत्नेन निष्पन्नः, असाधारणेन सर्वानपि कालान् सार्थक्यतो संग्रहिष्णुतास्वभावेन क्रमेणोपचिता नानाशास्त्रप्रमेयाः एकराश्यसंपादनेन प्रबन्धस्यास्य प्रमेयरूपतामनीयन्त, प्राणीयन्त च सुग्रहत्वाय स्थिरत्वाय च वार्तिकश्लोकरूपेणेति ॥ यत्पुनः सर्वस्वं विज्ञानसंपदां भारतधरित्र्याः बहोः कालात् बहुभिः कृतबुद्धिभिः समाजितं संवर्धितं च सर्वोपजीव्यं कुलधनं, प्राचीनैः परा- चीनैश्च क्वचित्क्वचित् महाप्रबन्धगुहासु निक्षिप्तं विप्रकीर्णं वा, तदेतत् एकदा एकधा एकत्र सर्वेषां समुपभोगार्हत्वाय समुद्धृत्य पर्यष्कारि प्रबन्ध- रूपेणेति च ॥ विदितमैवैतत्सर्वेषां सहृदयानां प्रायेणात्मीयस्य वस्तुनः गुणेषु सुद- र्शनं दोषेष्वदर्शनमिति, अथापि—"ग्रन्थे यदि गुणाः सन्ति विकसन्त्येव ते स्वयम्" इत्यनुसन्धाय सविनयमावेदयति कथंचित् उपकरोतु जगतां मह- तामनुग्रहेणेदमिति ॥ iii