भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 326, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 326

284 मानमेयरहस्यश्लोकवार्तिके

तानि सार्थापत्तकानि प्राहुः प्राभाकराः पुनः । अर्थापत्त्याऽतीन्द्रियार्थास्सिद्धयन्तीति हि तन्मतम् सादृश्यस्यातिरिक्तत्वादुपमानं पृथङ्कृतम् । अभावानभ्युपगमात् षष्ठं मानं न चाहतम् ॥ तान्येवाभावषष्ठानि विदुः कौमारिलाः पुनः । मेयानुसारान्मानस्य भिन्नता तैर्विचिन्तिता ॥ संभवैतिह्ययुक्तानि तानि पौराणिका विदुः । ऐतिह्येन ह्यनेकेऽर्थाः पौराणिकमते मताः ॥ लिपिः लोकप्रसिद्धिश्च चेष्टा प्रातिभमेवच । अन्यैश्चान्यैः स्वतन्त्रैर्हि मानान्तरमितीष्यते ॥ स्वयंसिद्धं च दिव्यं च प्रत्यक्षमनुमाऽऽगमः । इति पञ्चविधं केचित्प्रमाणं प्रविविश्चते ॥ स्पष्टास्पष्टविभेदेन प्रमाणद्वयवादिनः । जैनास्त एव प्रत्यक्षपरोक्षद्वयवादिनः ॥ स्मरणप्रत्यभिज्ञानुमानतर्कागमैः परम् । पञ्चप्रकारमित्याहुः पूर्वं त्विन्द्रियभेदतः ॥ प्रत्यक्षं च परोक्षं चापरोक्षमिति भेदतः । आत्माऽपरोक्षसंसिद्ध इत्यौपनिषदा विदुः ॥ केवलं चानुप्रमाणं चेति द्वेधा विभज्यते । प्रमाणमिति सिद्धान्तः जयतीर्थबुधैरितः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 326, कुल 672 में से · BharatKosha