मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 330, कुल 672 में से
संदर्भ में पढ़ें288 मानमेयरहस्यश्लोकवार्तिके तद्व्याप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्तते । क्षणिकत्वेन तान् भावान् सत्त्वं समवलम्बते ॥ ज्ञानोत्पत्त्यैव तद्धेतोरसामर्थ्यमपोद्यते । असमर्थात्समुत्पादो दृश्यते न हि कस्यचित् ॥ समर्थकारणज्ञानादयं प्रामाण्यनिश्चयः । इत्यतः परतस्त्वं तत्प्रामाण्यस्येति निर्णयः ॥ द्वितीयज्ञानसंवादादाद्यविज्ञानसंस्थितम् । प्रामाण्यं गृह्यत इति विदुः केचन सौगताः ॥ अप्रामाण्यस्य संवादः प्रायशो नैव दृश्यते । अप्रामाण्यं स्वत इति सिद्धान्तः तदभीप्सितः ॥ अर्थक्रिया वा संवादः गुणो वा परशब्दितः । . 3 अथ वैदिकसिद्धान्तः संग्रहेण विलिख्यते ॥ घटोऽस्तीत्यत्र विज्ञाने सन् घटो हि प्रतीयते । प्रामाण्यमर्थसद्भावः स तु स्वेनैव गृह्यते ॥ प्रज्ञायतेऽतः प्रामाण्यं स्वत इत्युच्यते बुधैः । अर्थक्रियाहेतुगुणसंवादैः क्रियते स्थिरम् ॥ अर्थान्यथात्वं नास्तित्वं अप्रामाण्यं तदिष्यते । न तत्प्रतीयते भ्रान्तौ बाधज्ञाने प्रतीयते ॥ अप्रामाण्यं परत इत्यतएवाभिधीयते । अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः ॥